________________
१८२
वत्वार्थाधिगमसूत्रम् । _ या सूरु ७।]
कृतो ऽशुचिरेव भवति। पक्को वाय्वाशयं प्राप्य वायुना विभज्यते पृथक्खलः पृथक्रमः । खलान्मूत्रपुरौषादयो मलाः प्रादुर्भवन्ति रसाच्छोणितं परिणमति शोणितान्मांसम् मांसान्मेदः मेदसो ऽस्यौनि अस्थिभ्यो मन्ना मज्जाभ्यः शुक्रमिति। सर्व चैतच्लेमादि शुक्रान्तमश चिर्भवति। तस्मादाद्युत्तरकारणाशुचित्वाद- 5 शुचिरौरमिति॥ किं चान्यत् अशुचिभाजनत्वात् त्रशुचौनां खल्वपि भाजनं शरीरं कर्णनासाचिदन्तमलखेदरलेभपित्तमूत्रपुरौषादौनामवस्करभूतं तस्मादशुचौति ॥ किं चान्यत् । अशुच्यभवत्वात् एषामेव कर्णमलादौनामुद्भवः शरौरं तत उद्भवन्तौति। अशुचौ चा गर्भ संभवतीति अशुचि शरीरम् ॥ किं 10 चान्यत् । अशुभपरिणामपाकानुबन्धादातवे बिन्दोराधानात्प्रति खल्वपि शरौरं कललार्बुदपेशोघनव्यूहसंपूर्णगर्भ कौमारयौवनस्थविरभावजनकेनाशुभपरिणामपा केनानुबटुंगा दुर्गन्धि पूतिखभावं दुरन्तं तस्मादशचि॥ किं चान्यत्। अशक्यप्रतीकारत्वात्** अशक्यप्रतीकारं खल्वपि शरीरस्थाशचित्वमुदर्तनरूक्षण- 15 स्वानानुलेपनधूपप्रघर्षी वासयुक्तिमाल्यादिभिरप्यस्य न शक्यमशुचित्वमपनेतुमशुच्यात्मकत्वात्शुच्युपघातकत्वाच्चेति । तस्मादशुचि शरीरमिति । एवं ह्यस्य चिन्तयतः शरीरे निर्वेदो भवति । निर्विलश्च शरीरप्रहाणाय घटत इति चित्वानुप्रेक्षा ॥ ६ ॥
• D वास्वाश्रयं। + C मज्जानः। || K विपाक। C अनबन्ध। #K प्रकर्ष, Com. धूप।
S. च = or. D मर्भा । ** D अशक्यप्रतीकारात् । ++ C भवतीति।