________________
[ ० ८ | सू० १२ । ]
अष्टमोऽध्यायः ।
सुखरनाम। दौखर्यनिर्वर्तकं दुःखरनाम । शुभभावशोभामाङ्गल्य निर्वर्तकं शुभनाम । तद्विपरीत निर्वर्तकमशुभनाम । सूक्ष्मशरीरनिर्वर्तकं सूक्ष्मनाम । बादरशरीरनिर्वर्तकं बादरनाम पर्याप्तिः पञ्चविधा । तद्यथा । आहारपर्याप्तिः शरौरपर्याप्तिः 5 इन्द्रियपर्याप्तिः प्राणापानपर्याप्तिः भाषापर्याप्तिरिति । पर्याप्तिः क्रियापरिसमाप्तिरात्मनः । शरीरेन्द्रियवाङ्मनः प्राणापानयोग्यदलिकद्रव्याहरणक्रियापरिसमाप्तिरा हारपर्याप्तिः । गृहीतस्य शरौरतया संस्थापनक्रियापरिसमाप्तिः शरौरपर्याप्तिः । संस्थापनं रचना घटनमित्यर्थः । त्वगादौन्द्रियनिर्वर्तनक्रियापरि10 समाप्तिरिन्द्रियपर्याप्तिः । प्राणापानक्रियायोग्यद्रव्यग्रहण निसर्गशक्तिनिर्वर्तनक्रियापरिसमाप्तिः प्राणापानपर्याप्तिः । भाषायोग्यद्रव्यग्रहण निसर्गशक्ति निर्वर्तनक्रियापरिसमाप्तिर्भाषापर्याप्तिः । मनस्त्व* योग्यद्रव्यग्रहण निसर्गश क्रिनिर्वर्तन क्रियासमाप्तिर्मनः पर्याप्तिरित्येके । आसां युगपदारब्धानामपि क्रमेण समाप्तिरुत्त15 रोत्तरसूक्ष्मत्वात् सूत्रदार्वादिकर्तन घटनवत् । यथासङ्ख्यं निदर्शनानि ग्टहदलिकग्रहणस्तम्भस्थूणाद्वारप्रवेश निर्गमस्थानशयनादिक्रिया निर्वर्तनानीति । पर्याप्तिनिर्वर्तकं पर्याप्तिनाम
त्रिपर्याप्तिनिर्वर्तकमपर्याप्तिनाम
अपर्याप्तिनाम? तत्परि
णामयोग्यद लिकद्रव्यमात्मनानोपात्तमित्यर्थः || || स्थिरत्वनिर्वर्तकं
१७०
* K मनच । † K and Comit कर्तन | + Domits पर्याप्तिनाम | § S probably omits from अपर्याप्तिनाम to तमित्यर्थः । || D द्रव्यमाचणोपात्तमित्यर्थः ।
23