SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ अथ सप्तमोऽध्यायः। अत्राह । उकं भवता सद्देद्यस्यास्रवेषु भूतव्रत्यनुकम्पति [VI. 18] । तत्र किं व्रतं को वा व्रतीति । अत्रोच्यते हिंसातस्तेयाब्रह्मपरिग्रहेभ्यो विरतिव्रतम् ॥१॥ हिंसाया अनृतवचनात्स्तेयादब्रह्मतः परिग्रहाच्च कायवान5 नोभिर्विरतिव्रतम् । विरति म ज्ञात्वाभ्युपेत्याकरणम् । करणं निवृत्तिरुपरमो विरतिरित्यनर्थान्तरम् ॥ देशसर्वतो ऽणुमहतौ ॥२॥ एभ्यो हिमादिभ्य एकदेशविरतिरणुव्रतं सर्वतो विरतिर्महाव्रतमिति ॥ 10 तत्स्थैयार्थ भावनाः पञ्च पञ्च* ॥३॥ तस्य पञ्चविधस्य व्रतस्य स्थैर्यार्थमेकैकस्य पञ्च पञ्च भावना भवन्ति । तद्यथा । अहिंसायास्तावदौर्यासमितिर्मनोगुप्तिरेषपासमितिरादाननिक्षेपणासमितिरालोकितपानभोजनमिति ॥ • Var. S. पञ्चमः पञ्च ।
SR No.022516
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorKeshavlal Premchand
PublisherBengal Asiatic Society
Publication Year1903
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy