SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ [अ० ४ । सू० १५] चतुर्थोऽध्यायः । १०३ मण्डलविष्कम्भश्चन्द्रमसः षट्पञ्चाशद् ग्रहाणामधयोजनं गव्यूतं नक्षत्राणां सर्वोत्कृष्टायास्ताराया अर्धक्रोशो जघन्याया पञ्चधनुःशतानि । विष्कम्भार्धबाहल्याश्च भवन्ति । सर्व सूर्या दयो नृलोक इति वर्तते । बहिस्तु विष्कम्भबाहल्याभ्यामतो ऽधं 5 भवन्ति ॥ एतानि च ज्योतिष्कविमानानि लोकस्थित्या प्रसक्कावस्थितगतोन्यपिऋद्धि विशेषार्थमाभियोग्यनामकर्मोदयाञ्च नित्यं गतिरतयो देवा वहन्ति । तद्यथा । पुरस्तात्केसरिणो दक्षिणतः कुञ्जरा अपरतो वृषभा उत्तरतो जविनो ऽश्वा इति ॥ तत्कृतः कालविभागः ॥१५॥ 10 कालो ऽनन्तममयोव तनादिलक्षण इत्युक्तम् [V. 39 and 22] । तस्य विभागो ज्योतिष्काणं गतिविशेषकृतश्चारविशेषेण हेतुना । तैः कृतस्तत्कृतः । तद्यथा । अणुभागाश्चारा। अंशाः कला लवा नालिका मुहूर्ता दिवसरात्रयः पक्षा मासा फतवो ऽयनानि संवत्सरा युगमिति लौकिकसमो विभागः ॥ पुनरन्यो विकल्पः 15 प्रत्युत्पन्नोऽतीतोऽनागत इति त्रिविधः ॥ पुनस्त्रिविधः परिभाष्यते मङ्येयोऽसङ्ख्येयोऽनन्त इति ॥ तत्र परमसूक्ष्मक्रियस्य सर्वजघन्यगतिपरिणतस्य परमाणोः खावगाहनक्षेत्रव्यतिक्रमकालः ममय इत्युच्यते परमदुरधिगमो' * C परिदि। + D चरा + D दिबसाः राचयः। १ परमैः अतिशयसम्पन्नः दुःखेनाधिगम्यते ॥
SR No.022516
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorKeshavlal Premchand
PublisherBengal Asiatic Society
Publication Year1903
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy