SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ [अ० ४ । सू० ११ ।। चतुर्थोऽध्यायः भवनवासिनो ऽसुरनागविद्युत्सुपर्णाग्निवातस्तनितोदधिदौपदिक्कुमाराः ॥ ११ ॥ __ प्रथमो देवनिकायो भवनवासिनः । इमानि चैषां विधानानि भवन्ति । तद्यथा। असुरकुमारा नागकुमारा विद्युत्कुमाराः 5 सुपर्णकुमारा अग्निकुमारा वातकुमाराःस्तनितकुमारा उदधिकुमारा द्वीपकुमारा दिक्कुमारा इति। कुमारवदेते कान्तदर्शनाः सुकुमारा* मृदुमधुरललितगतयः श्टङ्गाराभिजातरूपविक्रियाः कुमारवच्चोद्धतरूपवेषभाषाभरणप्रहरणवरणयानावाहनाः कुमारवञ्चोल्बणरागाः क्रौडनपराश्चेत्यतः कुमारा 10 इत्युच्यन्ते । असुरकुमारावासेष्वसुरकुमाराः प्रतिवमन्ति शेषास्तु भवनेषु। महामन्दरस्य दक्षिणोत्तरयोर्दिविभागयोबहीषु योजनशतसहस्रकोटीकोटीवावामा भवनानि च दक्षिणार्धाधिपतौनामुत्तरार्धाधिपतीनां च यथाखं भवन्ति । तत्र भवनानि रत्नप्रभायां बाहल्यार्धमवगाह्य मध्ये भवन्ति । भवनेषु 15 वसन्तौति भवनवासिनः ॥ भवप्रत्ययाश्चैषामिमा नामकर्मनियमात्स्वजातिविशेषनियता विक्रिया भवन्ति । तद्यथा। गम्भौराः श्रीमन्तः काला महा काधा रत्नोत्कटमुकुटभास्वराथूडामणिचिहा असुरकुमारा भवन्ति । शिरोमुखेष्वधिकप्रतिरूपाः कृष्णश्यामा मृदुललित20 गतयः शिरस्मु फणिचिहा नागकुमाराः। स्निग्धा भ्राजिष्णवो ऽवदाता वज्रचिहा विद्युत्कुमाराः। अधिक * D सुकुमारम.... + यात। - 13
SR No.022516
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorKeshavlal Premchand
PublisherBengal Asiatic Society
Publication Year1903
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy