SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ (E) प्रत्यक्षमनुमानं च शाब्दं चोपमया सह । अर्थापत्तिरभावश्च षट् प्रमाणानि जैमिनेः ॥ ७२ ॥ तत्र प्रत्यक्षमक्षाणां संप्रयोगे सतां संति । आत्मनो बुद्धिजन्मेत्यनुमानं लैङ्गिकं पुनः ॥ ७३ ॥ शाब्द शाश्वत वेदोत्थमुपमानं परिकीर्तितम् । प्रसिद्धार्थस्य साधर्म्यादिप्रसिद्धस्य साधनम् ॥ ७४ ॥ दृष्टार्थानुपपच्या तु कस्याऽप्यर्थस्य कल्पना | क्रियते यद्बलेनाsसावर्थापत्तिरुदाहृता ॥ ७५ ॥ प्रमाणपञ्चकं यत्र वस्तुरूपे न जायते । वस्तुसत्ताऽवबोधार्थं तत्राऽभावप्रमाणता ।। ७६ ।। जैमिनीयमतस्याऽपि संक्षेपोऽयं निवेदितः । एवमास्तिकवादानां कृतं संक्षेपकीर्तनम् ॥ ७७ ॥ नैयायिक मतादन्ये भेदं वैशेषिकैः सह । न मन्यन्ते मते तेषां पञ्चैवाऽऽस्तिकवादिनः ॥ ७८ ॥ षष्ठदर्शनसंख्या तु पूर्यते तन्मते किल । लोकायत मतक्षेपात् कथ्यते तेन तन्मतम् ॥ ७९ ॥ लोकायतदर्शन • लोकायता वदन्त्येवं नास्ति देवो न निर्वृतिः । धर्माधर्मौ न विद्येते न फलं पुण्य-पापयोः ॥ ८० ॥ एतावानेव लोकोऽयं यावानिन्द्रियगोचरः ।
SR No.022514
Book TitleJain Darshan
Original Sutra AuthorN/A
AuthorKalahansvijay
PublisherVarddhaman Satya Niti Harshsuri Jain Granthmala
Publication Year1945
Total Pages290
LanguageGujarati
ClassificationBook_Gujarati
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy