SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ सभाष्यतत्त्वार्थाधिगमसूत्रेषु व्यन्तरा ज्योतिष्काश्चाष्टविधा भवन्ति त्रायस्त्रिंशलोकपालवा इति ॥ ५ ॥ पूर्वयोज़न्द्राः॥६॥ पूर्वयोर्देवनिकाययोर्भवनवासिव्यन्तरयोर्देवविकल्पानां द्वौ द्वाविन्द्रौ भवतः। तद्यथा। भवनवासिषु तावद् द्वौ असुरकुमाराणामिन्द्रौ भवतश्चमरो बलिश्च । नागकुमाराणां धरणो भूतानन्दश्च । विद्युत्कुमाराणां हरिहरिसहश्च । सुपर्णकुमाराणां वेणुदेवो वेणुदारी च । अग्निकुमाराणामग्निशिखोऽग्निमाणवश्च । वातकुमाराणां वेलम्बः प्रभञ्जनश्च । स्तनितकुमाराणां सुघोषो महाघोषश्च । उदधिकुमाराणां जलकान्तो जलप्रभश्च । द्वीपकुमाराणां पूर्णोऽवशिष्टश्च । दिक्कुमाराणाममितोऽमितवाहनश्चेति ॥ व्यन्तरेष्वपि द्वौ किन्नराणामिन्द्रौ किन्नरः किम्पुरुषश्च । किम्पुरुषाणां सत्पुरुषो महापुरुषश्च । महोरगाणामतिकायो महाकायश्च । गन्धर्वाणां गीतरतिस्तयशाश्च । यक्षाणां पूर्णभद्रो माणिभद्रश्च । राक्षसानां भीमो महाभीमश्च । भूतानां प्रतिरूपोऽतिरूपश्च । पिशाचानां कालो महाकालश्चेति । ज्योतिष्काणां तु बहवः सूर्याश्चन्द्रमसश्च ॥ वैमानिकानामेकैक एव । तद्यथा । सौधर्मे शक्रः । ऐशाने ईशानः। सनत्कुमारे सुनत्कुमार इति । एवं सर्वकल्पेषु स्वकल्पावाः । परतस्त्विन्द्रादयो दश विशेषा न सन्ति । सर्व एव स्वतन्त्रा इति ॥६॥ पीतान्तलेश्याः ॥ ७ ॥ पूर्वयोनिकाययोर्देवानां पीतान्ताश्चतस्रो लेश्या भवन्ति ॥७॥ १ अच्युतकल्पात्परतः इन्द्रादयो विकल्पा ग्रैवेयकेषु विजयादिकेषु च न भवन्ति । सर्व एव हि ते स्वतंत्रत्वादहमिन्द्रा गमनागमनरहिताश्च प्राय इति । २ कृष्णा, नीला, कापोता, पीतेति ।
SR No.022506
Book TitleSabhashya Tattvarthadhigam Sutrani
Original Sutra AuthorN/A
AuthorMotilal Laghaji Oswal
PublisherMotilal Laghaji Oswal
Publication Year1927
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy