SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ चतुर्थोऽध्यायः दशविकल्पा भवनवासिनोऽसुरादयो वक्ष्यन्ते । अष्टविकल्पा व्यन्तराः किन्नरादयः । पञ्चविकल्पा ज्योतिष्काः सूर्यादयः । द्वादशविकल्पा वैमानिकाः कल्पोपपन्नपर्यन्ताः सौधर्मादिष्विति ॥३॥ इन्द्रसामानिकत्रायस्त्रिंशपारिषद्यात्मरक्षलोकपालानीकप्रकीर्णकाभियोग्यकिल्बिषिकाश्चैकशः ॥ ४ ॥ एकैकशश्चैतेषु देवनिकायेषु देवा दशविधा भवन्ति । तद्यथा। इन्द्राः सामानिकाः त्रायस्त्रिंशाः पारिषद्याः आत्मरक्षाः लोकपालाः अनीकानि अनीकाधिपतयः प्रकीर्णकाः आभियोग्याः किल्बिाषिका वेति । तन्द्राः भवनवासिव्यन्तरज्योतिष्कविमानाधिपतयः इन्द्रसमाः सामानिका अमात्यापितृगुरूपाध्यायमहत्तरवत् केवलमिन्द्रत्वहीनाः । त्रायस्त्रिंशा मन्त्रिपुरोहितस्थानीयाः। पारिषद्या वयस्यस्थानीयाः । आत्मरक्षाः शिरोरक्षस्थानीयाः । लोकपाला आरक्षिकार्थचरस्थानीयाः । आनिकाधिपतयो दण्डनायकस्थानीयाः । अनीकान्यनीकस्थानीयान्येव । प्रकीर्णकाः पौरजनपदस्थानीयाः। आभियोग्या दासस्थानीयाः । किल्विपिका अन्तस्थस्थानीया इति ॥ ४ ॥ त्रायस्त्रिंशलोकपालवा व्यन्तरज्योतिष्काः ॥५॥ १ अ. ४ सू. ११. २ अ. ४ सू. १२. ३ अ. ४ सू. १३. ४ अ. ४ सू. १७. ५ अन्ते परिगताः पर्यन्ता कल्पोपपन्नाः पर्यन्ताः येषां ते इमे कल्पोपपन्नपर्यन्ताः कल्पाश्च द्वादश वक्ष्यमाणाः सौधर्मादयोऽच्युतपर्यवसानाः, तत्पर्यन्तमेतच्चतुष्टयं भवतीत्यावेदयति । परे तु द्विर्विकल्पा:-प्रैवेयकवासिनो विजयादिविमानपञ्चकनिवासिनश्च । ६ अ. ४ सू. २०-२४.
SR No.022506
Book TitleSabhashya Tattvarthadhigam Sutrani
Original Sutra AuthorN/A
AuthorMotilal Laghaji Oswal
PublisherMotilal Laghaji Oswal
Publication Year1927
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy