________________
४६
२-४९
यथादित्यः स्वमात्मानं प्रकाशयत्यन्यानि च द्रव्याणि न चास्यान्यः प्रकाशकः । एवं कार्मणमात्मनश्च कारणमन्येषां च शरीराणामिति ।
अत्राह । औदारिकमित्येतदादीनां शरीरसंज्ञानां कः पदार्थ इति । अत्रोच्यते । उद्गतारमुदारम् । उत्कटारमुदारम् । उद्गम एव वोदारम् । उपादानात्प्रभृति अनुसमयमुद्गच्छति वर्धते जीर्यते शीर्यते परिणमतीत्युदारम् । उदारमेवौदारिकम् । नैवमन्यानि ॥ यथोद्गमं वा निरतिशेषं, ग्राह्यं छेद्यं भेद्यं दाह्यं हार्यमित्युदारणादौदारिकम् । नैवमन्यानि उदारमिति च स्थूलनाम । स्थूलमुद्गतं पुष्टं बृहन्महदित्युदारमेवौदारिकम् । नैवं शेषाणि । तेषां हि परं परं सूक्ष्ममित्युक्तम् ।। ___वैक्रियमिति । विक्रिया विकारो विकृतिर्विकरणमित्यनन्तरम् । विविधं क्रियते । एकं भूत्वानेकं भवति । अनेकं भूत्वा एकं भवति । अणु भूत्वा महद्भवति । महच्च भूत्वाऽणु भवति । एकाकृति भूत्वाऽनेकाकृति भवति । अनेकाकृति भूत्वा एकाकृति भवति । दृश्यं भूत्वाऽदृश्यं भवति । अदृश्यं भूत्वा दृश्यं भवति । भूमिचरं भूत्वा खेचरं भवति । खेचरं भूत्वा भूमिचरं भवति । प्रतिघाति भूत्वाऽप्रतिघाति भवति । अप्रतिघाति भूत्वा प्रतिघाति भवति । युगपञ्चैतान् भावाननुभवति । नैवं शेषाणीति । विक्रियायां भवति, विक्रियायां जायते विक्रियायां निर्वय॑ते, विक्रियैव वा वैक्रियम् ।
आहारकम् । आह्रियत इति आहार्यम् । आहारकमन्तर्मुहूर्तस्थिति । नैवं शेषाणि ॥
तेजसो विकारस्तैजसं तेजोमयं तेजःस्वतत्त्वं शापानुग्रहप्रयोजनम् । नैवं शेषाणि ।
कर्मणो विकारः कर्मात्मकं कर्ममयमिति कार्मणम् । नैवं शेषाणि । एभ्य एव चार्थविशेषेभ्यः शरीराणां नानात्वं सिद्धम्'। किं चान्यत् ।
१ घटपटादीनामिव लक्षणभेदात् ।