SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ तत्त्वार्थाधिगमसूत्रम् अत्राह । एषां पञ्चानामपि शरीराणां सम्मूर्च्छनादिषु त्रिषु जन्मसु किं क जायत इति । अत्रोच्यते गर्भसम्मूर्छनजमाद्यम् ॥ ४६ ॥ आद्यमितिसूत्रक्रमप्रामाण्यादौदारिकमाह ।तद्गर्भेसम्मूर्छने वाजायते॥४६।। वैक्रियमौपपातिकम् ॥ ४७ ॥ वैक्रियशरीरमौपपातिकं भवति । नारकाणां देवानां चेति ॥४७॥ लब्धिप्रत्ययं च ॥ ४८ ॥ 'लब्धिप्रत्ययं च वैक्रियशरीरं भवति । तिर्यग्योनीनां मनुष्याणां चेति ॥ ४८ ॥ शुभं विशुद्धमव्याघाति चाहारकं चतुर्दशपूर्वधरस्यैव ॥ ४९ ॥ शुभमिति शुभद्रव्योपचितं शुभपरिणामं चेत्यर्थः । विशुद्धमिति विशुद्धद्रव्योपचितमसावधं चेत्यर्थः । अव्याघातीति आहारकं शरीरं न व्याहन्ति न व्याहन्यते चेत्यर्थः । तच्चतुर्दशपूर्वधर एव कस्मिंश्चिदर्थे कृच्छ्रेऽत्यन्तसूक्ष्मे सन्देहमापन्नो निश्चयाधिगमार्थं क्षेत्रान्तरितस्य भगवतोऽर्हतः पादमूलमौदारिकेण शरीरेणाशक्यगमनं मत्वा लब्धिप्रत्ययमेवोत्पादयति । दृष्ट्वा भगवन्तं छिन्नसंशयः पुनरागत्य व्युत्सृजत्यन्तर्मुहूर्तस्य । तैजसमपि शरीरं लब्धिप्रत्ययं भवति । कार्मणमेषां निबन्धनमाश्रयो भवति । तत्कर्मत एव भवतीति बन्धे परस्ताद्वक्ष्यति । कर्म हि कार्मणस्य कारणमन्येषां च शरीराणामादित्यप्रकाशवत् । १ तपोविशेषजनिता लब्धिस्तत्प्रत्ययं तत्कारणमेतच्छरीरं भवति । अजन्मजमिदमित्यर्थः । २ द्वादशाङ्गस्य दृष्टिवादाख्य-(दृष्टिपात)-महासमुद्रस्य पंच पदानि, तद्यथा परिकर्म सूत्र पूर्वानुयोग पूर्वगत चूलिकाः । तत्र पूर्वगताख्यचतुर्थपदे चतुर्दश पूर्वाणि उत्पादम्, अग्रायणीयम्, वीर्यप्रवादम्, अस्तिनास्तिप्रवादम्, ज्ञानप्रवादम्, सत्यप्रवादम्, आत्मप्रवादम्, कर्मप्रवादम्, प्रत्याख्यानप्रवादम्, विद्याप्रवादम्, कल्याणम्, प्राणावायम्, क्रियाविशालम्, लोकबिन्दुसारम् । तानि धारणाज्ञानेनालम्बते इति चतुर्दशपूर्वधरः । ३ आरम्भाप्रभृत्या अपवर्गात् सर्वोऽन्तर्मुहूर्तपरिमाणः कालो भवति । ४ अ. ८ सू. १, २, ३.
SR No.022503
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorPrashamrativijay
PublisherRatnatrai Aradhak Sangh
Publication Year
Total Pages218
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy