SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ ६८ सर्वार्थसिद्धिः मनादिनिधनमिष्यते । तस्य मतिपूर्वकत्वे तदभावः। आदिमतोऽन्तवत्त्वात् । ततश्च पुरुषकृतत्वादप्रामाण्यमिति, नैष दोषः ।। द्रव्यादिसामान्यार्पणात् श्रुतमनादिनिधनमिष्यते ॥ नहि केनचित्पुरुषेण कचित्कदाचित्कथञ्चिदुत्प्रेक्षितमिति । तेषामेव विशेषापेक्षया आदिरन्तश्च सम्भवतीति मतिपूर्वमित्युच्यते ॥ यथांकुरो बीजपूर्वकः स च सन्तानापेक्षया अनादिनिधन इति ॥ न चापौरुषेयत्वं प्रामाण्यकारणम् । चौर्याधुपदेशस्यास्मर्यमाणकर्तृकस्य प्रामाण्यप्रसङ्गात् ॥ अनित्यस्य च प्रत्यक्षादेः प्रामाण्ये को विरोधः?। आह, प्रथमसम्यक्त्वोत्पत्तौ युगपज्ज्ञानपरिणामान्मतिपूर्वकत्वं श्रुतस्य नोपपद्यत इति । तदयुक्तं सम्यक्त्वस्य तदपेक्षत्वात् । आत्मलाभस्तु क्रमवानिति मतिपूर्वकत्वव्याघाताभावः ॥ आह मतिपूर्वं श्रुतमित्येतल्लक्षणमव्यापि श्रुतपूर्वमपि श्रुतमिष्यते। तद्यथा- शब्दपरिणतपुद्गलस्कन्धादाहितवर्णपदवाक्यादिभावाच्चक्षुरादिविषयाच्च आद्यश्रुतविषयभावमापन्नादव्यभिचारिणः कृतसंगीतिर्जनो घटाजलधारणादिकार्यसम्बन्ध्यन्तरं प्रतिपद्यते धूमादेर्वाग्न्यादिद्रव्यं, तदा श्रुतात् श्रुतप्रतिपचिरिति। नैष दोषः । तस्यापि मतिपूर्वकत्वमुपचारतः ॥ श्रुतमपि कचिन्मतिपूर्वकत्वान्मतिरित्युपचर्यत इति ॥ भेदशब्दः प्रत्येकं परिसमाप्यते द्विभेदमनेकभेदं द्वादशभेदमिति ॥ द्विभेदं तावत्- अङ्गबाह्यमङ्गप्रविष्टमिति । अङ्गबाह्यमनेकविधं दशवैकालिकोत्तराध्ययनादि ॥ अङ्गप्रविष्टं द्वादशविधम् ॥ तद्यथा- आचारः। सूत्रकृतम् । स्थानम् । समवायः । व्याख्याप्रज्ञप्तिः । ज्ञातृधर्मकथा । उपासकाध्ययनम् । अन्तकृद्दशम् । अनुत्तरोपपादिकदशम् । प्रश्नव्याकरणम् । विपाकसूत्रम् । - १ मतिश्रुतोत्पत्तेः ॥ २ ज्ञानसम्यग्भावस्य ॥
SR No.022501
Book TitleSarvarth Siddhi
Original Sutra AuthorPujyapadacharya
Author
PublisherKallappa Bharamappa Nitbe
Publication Year1839
Total Pages310
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy