SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ प्रथमोऽध्यायः एवमेषामुद्दिष्टानां सम्यग्दर्शनादीनां जीवादीनां च संव्यवहारविशेषव्यभिचारनिवृत्त्यर्थमाह-- ॥ नामस्थापनाद्रव्यभावतस्तन्न्यासः॥ ५॥ अतद्गुणे वस्तुनि संव्यवहारार्थं पुरुषांकारान्नियुज्यमानं संज्ञाकर्म नाम । काष्ठपुस्तचित्रकर्माक्षनिक्षेपादिषु सोऽयमिति स्थाप्यमाना स्थापना । गुणैद्रीप्यते गुणान्द्रोप्यतीति वा द्रव्यम् । वर्तमानतत्पर्यायोपलक्षितं द्रव्यं भावः ॥ तद्यथा- नामजीवः स्थापनाजीवो द्रव्यजीवो भावजीव इति चतुर्धा जीवशब्दार्थो न्यस्यते ॥ जीवनगुणमनपेक्ष्य यस्य कस्यचिन्नाम क्रियमाणं नामजीवः ॥ अक्षनिक्षेपादिषु जीव इति वा मनुष्यजीव इति वा व्यवस्थाप्यमानः स्थापनाजीवः ॥ द्रव्यजीवो द्विविधः । आगमद्रव्यजीवः नोआगमद्रव्यजीवश्चेति ॥ तत्र जीवप्राभृतज्ञायी मनुष्यजीवप्राभृतज्ञायी वा अनुपयुक्त आत्मा आगमद्रव्यजीवः ॥ नोआगमद्रव्यजीवस्त्रेधा व्यवतिष्ठते । ज्ञायकशरीर-भावि--तद्व्यतिरिक्तभेदात् । तत्र ज्ञातुर्यच्छरीरं त्रिकालगोचरं तज् ज्ञायकशरीरम् । सामान्यापेक्षया नोआगमभाविजीवो नास्ति, जीवनसामान्यस्य सदाऽपि विद्यमानत्वात् । विशेषापेक्षया त्वस्ति गत्यन्तरे । जीवो व्यवस्थितो मनुष्यभवप्राप्ति प्रत्यभिमुखो मनुष्यभाविजीवः ॥ तद्व्यतिरिक्तः कर्मनोकर्मविकल्पः ।। भावजीवो द्विविधः । आगमभावजीवो नोआगमभावजीवश्चेति । तत्र जीवप्राभृतविषयोपयोगाविष्टो मनुष्यजीवप्राभृतविषयोपयोगयुक्तो वा आत्मा आगमभावजीवः । जीवन पर्यायेण मनुप्यजीवत्व १ हठात् ॥ २ गुणेर्गुणान्वः द्रुतं गतं प्राप्तमिति द्रव्यामत्यप्यधिकः पाठः पुस्तकान्तरे दृश्यते ॥ ३ औदारिकवक्रियिकाहारकशरीरत्रयस्य षट्पर्याप्तीनां च योग्यपुद्गलानामादानं नोकः ॥
SR No.022501
Book TitleSarvarth Siddhi
Original Sutra AuthorPujyapadacharya
Author
PublisherKallappa Bharamappa Nitbe
Publication Year1839
Total Pages310
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy