SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ २२५ अष्टमोऽध्यायः मत्यादीनि ज्ञानानि व्याख्यातानि ॥ तेषामावृतेरावरणभेदो भवतीति पञ्चोत्तरप्रकृतयो वेदितव्याः ॥ अत्र चोद्यते- अमन्यस्य मनःपर्ययज्ञानशक्तिः केवलज्ञानशक्तिश्च स्याद्वा न वा!। यदि स्यात्- तस्याभव्यत्वाभावः । अथ नास्ति-- तत्रावरणद्वयकल्पना व्यथेति ॥ उच्यते-- आदेशवचनान्न दोषः-- द्रव्यादेशान्मनःपर्ययकेवलज्ञानशक्तिसम्भवः । पर्यायार्थादेशात्तच्छक्त्यभावः ॥ यद्येवं, भव्याभव्यविकल्पो नोपपद्यते । उभयत्र तच्छक्तिसद्भावात् ॥ न शक्तिभावाभावापेक्षया भव्याभव्यविकल्प इत्युच्यते ॥ कुतस्तर्हि ! व्यक्तिसद्भावासद्भावापेक्षया ॥ सम्यग्दर्शनादिभिर्व्यक्तिर्यस्य भवि. ष्यति स भव्यः। यस्य तु न भविष्यति सोऽभव्यः । कनकेतरपाषाणवत् ॥ आह , उक्तो ज्ञानावरणोत्तरप्रकृतिविकल्पः । इदानीं दर्शनावरणस्य वक्तव्य इत्यत आह ॥ चक्षुरचक्षुरवधिकेवलानां निद्रानिद्रानिद्राप्रचलाप्रचलाप्रचलास्त्यानगृडयश्च ॥ ७ ॥ चक्षुरचक्षुरवधिकलानामिति दर्शनावरणापेक्षया भेदनिर्देशःचक्षुर्दर्शनावरणमचक्षुर्दर्शनावरणमवधिदर्शनावरणं केवलदर्शनावरण. मिति ॥ मदखदल्लमविनोदनार्थः स्वापो निद्रा । तस्या उपर्युपरि वृत्तिनिद्रानिद्रा । या क्रियाऽत्मानं प्रचलयति सा प्रचला शोकश्रममदादिप्रभवा आसीनस्यापि नेत्रगात्रविक्रियासूचिका । सैव पुनःपुनरावर्तमाना प्रचलाप्रचला। खप्नेऽपि यया वीर्यविशेषाविर्भावः सा स्त्यानगृद्धिः । स्त्यायतेरनेकार्थत्वात्स्वमार्थ इह.. गृह्यते । गृविरफि दीप्तिः । स्याने स्वमे गृध्यति दीप्यते यदुदयादात्मा रौद्रं बहुकर्म - करोति सा स्त्यानगृद्धिः ॥ इह
SR No.022501
Book TitleSarvarth Siddhi
Original Sutra AuthorPujyapadacharya
Author
PublisherKallappa Bharamappa Nitbe
Publication Year1839
Total Pages310
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy