________________
सप्तमोऽध्यायः
२१९ बन्धनिदानानि ॥ ३७॥ आशंसनमाशंसा आकाङ्क्षणमित्यर्थः । जीवितं च मरणं च जीवितमरणं , जीवितमरणस्याशंसे जीवितमरणाशंसे । पूर्वसुहसहपांसुक्रीडनाद्यनुस्मरणं मित्रानुरागः । अनुभूतप्रीतिविशेषस्मृतिसमन्वाहारः सुखानुबन्धः । भोगाकाङ्क्षया नियतं दीयते चित्तं तस्मिंस्तेनेति वा निदानम् ॥ त एते पंच सल्लेखनाया अतिचाराः ।। ... अत्राह- उक्तं भगवता तीर्थकरत्वकारणकर्मास्रवनिर्देशे शक्तितस्त्यागतपसीति, पुनश्चोक्तं शीलविधानेऽतिथिसंविभाग इति । तस्य दानस्य लक्षणमनिर्जातं तदुच्यतामित्यत आह
॥ अनुग्रहार्थं स्वस्यातिसर्गों दानम् ॥ ३८॥
स्वपरोपकारोऽनुग्रहः । स्वोपकारः पुण्यसंचयः, परोपकारः सम्यग्ज्ञानादिवृद्धिः ॥ स्वशब्दो धनपर्यायवचनः। अनुग्रहार्थ स्वस्यातिसर्गस्त्यागो दानं वेदितव्यम् ॥
अत्राह- उक्तं दानं तत्किमविशिष्टफलमाहोस्विदस्ति काश्चिप्रतिविशेष इत्यत आह॥ विधिद्रव्यदातृपात्रविशेषात्तद्विशेषः ॥ ३९॥
प्रतिग्रहादिक्रमो विधिः। विशेषो गुणकृतः । तस्य प्रत्येकमभिसम्बन्धः क्रियते- विधिविशेषो द्रव्यविशेषो दातृविशेषः पात्रविशेष इति ॥ तत्र विधिविशेषः प्रतिग्रहादिष्वादरानादरकृतो भेदः । तपःस्वाध्यायपरिवृद्धिहेतुत्वादिद्रव्यविशेषः । अनसूयाविषादादिर्दातृविशेषः । मोक्षकारणगुणसंयोगः पात्रविशेषः । ततश्च पुण्यफलविशेषः क्षेत्रादिविशेषाद्वीजफलविशेषवत् ॥ ७॥
॥ इति तत्वार्थवृत्तौ सर्वार्थासद्धिसज्ञिकायां सप्तमोऽध्यायः ।।