SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ सप्तमोऽध्याय • अनर्थदण्ड : पंचविधः । अपध्यानम् । पापोपदेशः । प्रमादाचरितम्। 'हिंसाप्रदानम् । अशुभश्रुतिरिति ॥ तत्र परेषां जयपराजयवधबन्धनाझच्छेदपरस्वहरणादि कथं स्यादिति मनसा चिन्तनमपध्यानम् ।। तिर्यक्लेशवाणिज्यपाणिवधकारम्भकादिषु पापसँयुक्तं वचनं पापोपदेशः ॥ प्रयोजनमन्तरेण वृक्षादिच्छेदनभूमिकुट्टनसलिलसेचनीयबधकार्य प्रमादाचरितम् ॥ विषकण्टकशस्त्रामिरज्जुकशादण्डादिहि"सोपकरणप्रदानं हिंसाप्रदानम् ॥ हिंसागारादिप्रवर्धनदुष्टकथाश्रवणशिक्षणव्यापृतिरशुभश्रुतिः ॥ समेकीभावे वर्तते । तद्यथा सजत घृतं सङ्गतं तैलमित्युच्यते एकीभूतमिति गम्यते । एकत्वेन अथनं गमनं समयः, समय एव सामायिकं , समयः प्रयोजनमस्येति वा विगृह्म :सामायिकम् । इयति देशे एतावति काले इत्यवधारिते सामायिक स्थितस्य महाव्रतत्वं पूर्ववद्वेदितव्यम् ॥ अणुस्थूलकृ. तहिंसादिनिवृत्तेस्सयमप्रसङ्ग इति चेन्न । तद्धातिकर्मोदयासद्भावात् ।। महानतत्वाभावः इति चेदुपचाराद्राजकुले सर्वगतचैत्राभिधानवत् ।। प्रोषधशब्दः पर्वपर्यायवाची ॥ शब्दादिग्रहणं प्रति निवृत्तौत्सुक्यानि पञ्चापीन्द्रियाण्युपेत्य तस्मिन् वसन्तीत्युपवासः । चतुर्विधाहारपरित्याग इत्यर्थः ॥ प्रोषधे उपवासः प्रोषधोपवासः । स्वशरीरसंस्कारकारणस्नानगन्धमाल्याभरणादिविरहितः शुभावकाशे, साधुनिवासे चैत्यालये स्वप्रोषधोपवासगृहे वा धर्मकथाचिन्तनावहितान्तःकरणः सन्नुपवसेत् निरारम्भश्रावकः ॥ उपभोगोऽशनपानगन्धमाल्यादिः ।.. परिभोग आच्छादनप्रावरणालङ्कारशयनासनगृहयानंचाहनादिः । तयोः परिमाणमुपभोगपरिभोगपरिमाणम् ।। मधु मांसं माञ्चः सदा परिहर्तव्यं त्रसघातानिवृत्तचेतसा ॥ केतस्पर्जुन:पुष्पादीनि शृंगवेरमूलकादीनि बहुजन्तुयोनिस्थानान्यनन्तकाग्रव्य. पदेशाणि परिहर्तव्यानि बहुधाताल्पफलत्वात् ॥ यानवाहनाभरः
SR No.022501
Book TitleSarvarth Siddhi
Original Sutra AuthorPujyapadacharya
Author
PublisherKallappa Bharamappa Nitbe
Publication Year1839
Total Pages310
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy