SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ १७७ . ....." MORS पंचमोऽध्यायः स्निग्धरूक्षत्वगुणनिमित्ते बन्धे अविशेषेण प्रसक्ते अनिष्ट गुणनिवृत्यर्थमाह ॥ न जघन्यगुणानाम् ॥ ३४ ॥ जघन्यो निकृष्टः गुणो भागः । जघन्यो गुणो येषां ते जघन्यगुणाः। तेषां जघन्यगुणानां नास्ति बन्धः । तद्यथा- एकगुणस्निग्धस्यैकगुणस्निग्धेन व्यादिसंख्येयासंख्येयानन्तगुणस्निग्धेन च नास्ति बन्धः । तस्यैवैकगुणस्निग्धस्य एकगुणरूक्षेण व्यादुिसख्येयासंख्येयानन्तगुणरूक्षेण वा नास्ति बन्धः । तथा एकगुणरूक्षस्यापि योज्यमिति ॥ एतौ जघन्यगुणस्निग्धरूक्षौ वर्जयित्वा अन्येषां स्निग्धानां रूक्षाणां च परस्परेण बन्धो भवतीत्यविशेषेण प्रसङ्गे तत्रापि प्रतिषेधविषयख्यापनार्थमाह ॥ गुणसाम्ये सदृशानाम् ॥ ३५ ॥ 'सदृशग्रहणं तुल्यजातीयसंप्रत्ययार्थं । गुणसाम्यग्रहणं तुल्य'भागसंप्रत्ययार्थम् ॥ - एतदुक्तं भवति- द्विगुणस्निग्धानां द्विगुणरूक्षैः त्रिगुणस्निग्धानां त्रिगुणरूझैः द्विगुणस्निग्धानां द्विगुणस्निग्धैः द्विगुणरूक्षाणां द्विगुणरूक्षश्चेत्येवमादिषु नास्ति बन्ध इति ।। यद्येवं सदृशग्रहणं किमर्थं ? गुणवैषम्ये सदृशानामपि बंधप्रतिपत्त्या सदृशग्रहणे क्रियते ॥. ... ...... - अतो विषमगुणानां तुल्यजातीयानामतुल्यजातीयानां च अनियमन-बन्धप्रसक्तौ विशिष्टार्थसंप्रत्ययार्थमिदमुच्यते--..----- ॥ यधिकादिगुणानां तु ॥ ३६ ॥ द्वाभ्यां गुणाभ्यामधिको ब्यधिकः । कः पुनरसौ ?: चतुः
SR No.022501
Book TitleSarvarth Siddhi
Original Sutra AuthorPujyapadacharya
Author
PublisherKallappa Bharamappa Nitbe
Publication Year1839
Total Pages310
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy