SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ १७६ सर्वार्थसिद्धिः तथा द्रव्यमपि सामान्यार्पणया नित्यं विशेषार्पणयाऽनित्यमिति नास्ति विरोधः ।। तौ च सामान्यविशेषौ कथञ्चित् भेदाभेदाभ्यां व्यवहारहेतू भवतः ॥ अत्राह - सतोऽनेकनयव्यवहारतन्तत्वात् उपपन्ना भेदसंघातेभ्यः सतां स्कन्धात्मनोत्पत्तिरिदं तु सन्दिग्धं किं संघातः संयोगादेव व्यणुकादिलक्षणो भवति, उत कश्विद्विशेषोऽवधियत इति ? | उच्यते - सति संयोगे बन्धादेकत्वपरिणामात्मकात्संघातो निष्पद्यते ॥ यद्येवमिदमुच्यतां, कुतो नु खलु पुद्गलजात्त्यपरित्यागे सति भवति केषांचिद्बन्धोऽन्येषां च नेति । उच्यते - यस्मा त्तेषां पुद्गलात्माविशेषेऽप्यनन्तपर्यायाणां परस्पर विलक्षणपरिणामादाहितसामर्थ्याद्भवन्प्रतीतः - ॥ स्रिग्धरूक्षत्वाद्बन्धः ॥ ३३ ॥ बाह्याभ्यन्तरकारणवशात् स्नेहपर्यायाविर्भावात् स्त्रिद्यतेऽ स्मिन्निति स्निग्धः। तथा रूक्षणाद्रक्षः । स्निग्धश्च रूक्षश्च स्त्रिग्धरूक्षौ तयोर्भावः स्निग्धरूक्षत्वं । त्रिग्धत्वं चिक्कणगुणलक्षणः पर्यायः । तद्विपरीतपरिणामो रूक्षत्वं ॥ स्त्रिग्धरूक्षत्वादिति हेतुनिर्देशः । तत्कृतो बन्धो व्यणुकादिपरिणामः द्वयोः स्त्रिग्धरूक्षयोरण्वोः परस्परश्लेषलक्षणे बन्धे सति व्यणुकस्कन्धो भवति ॥ एवं संख्येयासंख्येयानन्तप्रदेशः स्कन्धो योज्यः । तत्र स्नेहगुणः एकद्वित्रिचतुः संख्येयासंख्येयानन्तविकल्पः ॥ तथा रूक्षगुणोऽपि ॥ तद्गुणाः परमाणवः सन्ति । यथा तोयाजागोमहिष्युष्टी क्षीरघृतेषु स्नेहगुणः प्रकर्षाप्रकर्षेण प्रवर्तते । पांशुकणिकाशर्करादिषु च रूक्षगुणो दृष्टः । तथा परमाणुष्वपि स्निग्धरूक्षगुणयोर्वृत्तिः प्रकर्षाप्रकर्षेण अनुमीयते ॥
SR No.022501
Book TitleSarvarth Siddhi
Original Sutra AuthorPujyapadacharya
Author
PublisherKallappa Bharamappa Nitbe
Publication Year1839
Total Pages310
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy