SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ १५४ सर्वार्थसिद्धिःचेन्न । कथञ्चिद्भेदाभेदोपपत्तेस्तद्व्यपदेशसिद्धिः , व्यतिरेकेणानुपलधेरभेदः सञ्जालक्षणप्रयोजनादिभेदाढ़ेद इति ॥ प्रकृता धर्मादयो बहवस्तत्सामानाधिकरण्याबहुत्वनिर्देशः ॥ स्यादेतत्संख्यानुवृत्तिवत्पुल्लिङ्गानुवृत्तिरपि प्राप्नोति । नैष दोषः। आविष्टलिङ्गाः शब्दा न कदाचिल्लिङ्गं व्यभिचरन्ति । अतो धर्मादयो द्रव्याणि भवन्तीति ॥ अनन्तरत्वाच्चतुर्णामेव द्रव्यव्यपदेशप्रसङ्गेऽध्यारोपणार्थमिदमुच्यते ॥ जीवाश्च ॥ ३॥ ... जीवशब्दो व्याख्यातार्थः । बहुत्वनिर्देशो व्याख्यातभेदप्रतिपत्त्यर्थः । चशब्दः सञ्जानुकर्षणार्थः जीवाश्च द्रव्याणीति ॥ एवमेतानि वक्ष्यमाणेन कालेन सह षट् द्रव्याणि भवन्ति ॥ ननु द्रव्यस्य लक्षणं वक्ष्यते 'गुणपर्ययवद्रव्यमिति' तल्लक्षणयोगाद्धर्मादीनां द्रव्यत्वव्यपदेशो भवति नार्थः परिगणनेन ? ॥ परिगणनमवधारणार्थ, तेनान्यवादिपरिकल्पितानां पृथिव्यादीनां निवृत्तिः कृता भवति ॥ कथं ? पृथिव्यप्तेजोवायुमनांसि पुद्गलद्रव्येऽन्तर्भवन्ति रूपरसगन्धस्पर्शवत्त्वाच्चक्षुरिन्द्रियवत् ॥ वायुमनसो रूपादियोगाभाव इति चेन्न । बायुस्तावद्रूपादिमान्स्पर्शवत्त्वाद्धटादिवत् ॥ चक्षुरादिकरणग्राह्यत्वाभावाद्रूपाद्यभाव इति चेत्परमाण्वादिष्वतिप्र. सङ्गः स्यात् ।। आपो गन्धवत्यः स्पर्शवत्त्वात्पृथिवीवत् ॥ तेजोऽपि रसगन्धवत् रूपवत्त्वात् ॥ तद्वदेव मनोऽपि द्विविधं द्रव्यमनो भावमनश्चेति । तत्र भावमनो ज्ञानम्, तस्य जीवगुणत्वा. दात्मन्यन्तर्भावः । द्रव्यमनश्च रूपादियोगात्पुद्गलद्रव्यविकारः ॥ रूपादिवन्मनः ज्ञानोपयोगकारणत्वाच्चक्षुरिन्द्रियवत् ॥ ननु अमूर्ते ऽपि शब्दे ज्ञानोपयोगकारणत्वदर्शनाव्यभिचारी हेतुरिति चेन्न ।
SR No.022501
Book TitleSarvarth Siddhi
Original Sutra AuthorPujyapadacharya
Author
PublisherKallappa Bharamappa Nitbe
Publication Year1839
Total Pages310
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy