SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ १५२ सर्वार्थसिद्धिः काणां परा स्थितिः पल्योपममधिकमिति ॥ अथापरा कियतीत्यत आह ॥ तदष्टभागोऽपरा ॥ ४१॥ तस्य पल्योपमस्याष्टभागो ज्योतिष्काणामपरा स्थितिरित्यर्थः ॥ अथ लौकान्तिकानां विशेषोक्तानां स्थितिविशेषो नोक्तः । स कियानित्यत्रोच्यते-- ॥ लौकान्तिकानामष्टौ सागरोपमाणि सर्वेषाम् ॥ ४२ अविशिष्टाः सर्वे ते शुक्ललेश्याः पञ्चहस्तोत्सेधशरीराः ॥ चतुर्णिकायदेवानां । स्थानं भेदाः सुखादिकम् ॥ ॥ परापरस्थितिलेश्या । तुर्याध्याये निरूपितम् ॥ १ ॥ ॥ इति तत्वार्थवृत्तौ सर्वार्थासद्धिसज्ञिकायां चतुर्थोऽध्यायः ॥ ॐ नमः परमात्मने वीतरागाय. ॥ अथ पश्चमोऽध्यायः॥ इदानीं , सम्यग्दर्शनस्य विषयभावेनोपक्षिप्तेषु जीवादिषु जीवपदार्थो व्याख्यातार्थः । अथाजीवपदार्थो विचारप्राप्तस्तस्य सज्ञाभेदसङ्कीर्तनार्थमिदमुच्यते ॥ अजीवकाया धर्माधर्माकाशपुद्गलाः ॥ १॥ कायशब्दः शरीरे व्युत्पादितः । इहोपचारादध्यारोप्यते । कुत उपचारः ? । यथा शरीरं पुद्गलद्रव्यप्रचयात्मकं तथा धर्मादिष्वपि प्रदेशप्रचयापेक्षया काया इव काया इति । अजीवाश्च
SR No.022501
Book TitleSarvarth Siddhi
Original Sutra AuthorPujyapadacharya
Author
PublisherKallappa Bharamappa Nitbe
Publication Year1839
Total Pages310
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy