SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ द्वितीयोऽध्यायः तन्निमित्त आत्मनः परिणाम उपयोगस्तदुभयं भावेन्द्रियम् ॥ इन्द्रियफलमुपयोगः तस्य कथमिन्द्रियत्वम् ? कारणधर्मस्य कार्ये दर्शनात् । यथा घटाकारपरिणतं विज्ञानं घट इति ।। स्वार्थस्य तत्र मुख्यत्वाच्च । इन्द्रस्य लिङ्गमिन्द्रियमिति यः स्वार्थः स उपयोगो मुख्यः । उपयोगलक्षणो जीव इति वचनात् । अत उपयोगस्यन्द्रियत्वं न्याय्यम् ॥ उक्तानामिन्द्रियाणां सज्ञानुपूर्वीप्रतिपादनार्थमाह॥ स्पर्शनरसनघ्राणचक्षुःश्रोत्राणि ॥ १९ ॥ लोके इन्द्रियाणां पारतन्त्र्यविवक्षा दृश्यते । अनेनाक्ष्णा सुष्टु पश्यामि, अनेन कर्णेन सुष्टु श्रुणोमीति । ततः पारतत्र्यात्स्पर्शनादीनां कारणत्वं । वीर्या-तरायमतिज्ञानावरणक्षयोपशमांझोपाङ्गनामलाभावष्टम्भात् आत्मना स्पृश्यतेऽनेनेति स्पर्शनम् । रस्यतेऽनेनेति रसनम् । प्रायतेऽनेनेति प्राणम् । चक्षेरनेकार्थत्वाद्दर्शनार्थविवक्षायां चष्टे अर्थान्पश्यत्यनेनेति चक्षुः । श्रूयतेड़ नेनेति श्रोत्रम् ॥ स्वातन्त्र्यविवक्षा च दृश्यते । इदं मे अक्षि सुष्टु पश्यति । अयं मे कर्णः सुष्टु श्रुणोति । ततः स्पर्शनादीनां कर्तरि निष्पत्तिः। स्पृशतीति स्पर्शनम् । रसतीति रसनम् । जिघ्रतीति प्राणम् । चष्टे इति चक्षुः। श्रुणोतीति श्रोत्रम् ॥ एषां निर्देशक्रमः एकैकवृद्धिक्रमप्रज्ञापनार्थः ॥ तेषामिन्द्रियाणां विषयप्रदर्शनार्थमाह॥ स्पर्शरसगन्धवर्णशब्दास्तदर्थाः ॥ २०॥ द्रव्यपर्याययोः प्राधान्यविवक्षायां कर्मभावसाधनत्वं स्पर्शादिशब्दानां वेदितव्यम् ॥ द्रव्यप्राधान्यविवक्षायां कर्मनिर्देशः । स्पृश्यत इति स्पर्शः। रस्यत इति रसः । गन्ध्यत इति गन्धः ।
SR No.022501
Book TitleSarvarth Siddhi
Original Sutra AuthorPujyapadacharya
Author
PublisherKallappa Bharamappa Nitbe
Publication Year1839
Total Pages310
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy