SearchBrowseAboutContactDonate
Page Preview
Page 524
Loading...
Download File
Download File
Page Text
________________ ललितविस्तरासंस्कृतटीका कथमित्याह-दीर्घकालं-पूर्वलक्षादिप्रमाणतया नैरन्तर्येण-निरन्तरायसातत्येन सत्कारस्य-जिनपूजाया आसेवनम्-अनुभवस्तेन श्रद्धा-शुद्धमार्गरुचिः, वीर्यम्-अनुष्ठानशक्तिःस्मृतिः अनुभूतार्थविषया ज्ञानवृत्तिः, समाधिः-चित्तस्वास्थ्य, प्रज्ञा-बहुबहुविधादिगहनविष याऽवबोधशक्ति,स्तासां वृद्धथा-प्रकर्षण, अनासेवितसत्कारस्य हि जन्तोरदृष्टकल्याणतया तदाकाङ्क्षाऽसम्भवेन चेतसोऽप्रसन्नत्वात् श्रद्धादीनां तथाविधवृद्धयभाव इति, इदमेव व्यतिरेकतः प्रतिवस्तूपन्यासेनाह"न" नैव "हिः” यस्मात् “समग्रसुखभाक्” सम्पूर्ण वैषयिकशर्मसेवकः “तदङ्गहीनः” तस्यसमग्रसुखस्याङ्गानि हेतवो वयोवैचक्षण्यदाक्षिण्यविभवौदार्यसौभाग्यादयस्तैहीनो-रहितो भवति, विपक्षे बाधकमाह-" तद्वैकल्येऽपि” तदङ्गाभावेऽपि "तद्भावे" समग्रसुखभावे “ अहेतुकत्वप्रसङ्गात" निर्हेतुकत्वप्राप्तेरिति “ सेय"मिति प्रणिधानलक्षणा “प्रशान्तवाहिते”ति प्रशान्तोरागादिक्षयक्षयोपशमवान् वहति-वर्त्तते तच्छीलश्च यः स तथा तद्भावस्तत्ता । टी०....अर्थाद् भवनिर्वेदादिगुणाष्टककल्याणविषयकप्रार्थनारूपं प्रणिधानं, सकलशुभानुष्ठानमूलकारणमेतत् , मोक्षरूपफलकमेव ( नान्यफलकम् ) निदानरहितं, यतः, भौतिकभोग्योपभोग्यपदार्थविषयकप्रार्थना आशंसा-आसक्ति-अभिष्वंगरूप-तल्लक्षणस्याभावो वर्तते, मोक्षकारणप्रणिधानत्वेनासङ्गता (रागद्वेषमोहरागाभावरूपाऽसंगता-वीतरागतादौ सक्त-लमचित्तव्यापारः संकल्पव्यापारः एष महानेव. "न च प्रणिधानादृते प्रवृत्त्यादयः, एवं कर्त्तव्यमेवैतदिति' ___ अर्थात् प्रणिधानं विना प्रवृत्त्यादयो न भवन्ति, एवं प्रणिधानस्य सत्तायामेव प्रवृत्त्यादीनां सत्ताऽस्तीति प्रणिधानमैवेतत् कर्त्तव्यमेव. यतः प्रणिधानमस्त्यतः (प्रणिधानं स्वतो हीनगुणवति, उपरि, द्वेषं विना तदुपर्युपकारकरणबुद्धिसहितं वर्तमानधर्मस्थानस्य कर्त्तव्यत्वे चित्तोपयोगो रक्षणीयः) प्रवृत्तिरस्ति, ( प्रवृत्तिः-वर्तमानधर्मस्थानमुद्दिश्य तस्योपायसहितक्रियायां-विधिशुद्धश्च शीघ्रक्रियासमाप्तिं कर्त्तमिच्छारूपमुत्सुकत्वरहितो यस्तीव्रप्रयत्नः साऽत्र प्रवृत्तिः) अतो विघ्नजयोऽस्ति. ( विघ्नजयः धर्मक्रियायामन्तरायनिवारकः परिणामः, स त्रिधा, (१) बुभुक्षा-तृषाऽऽदिपरीषहाः (२) शारीरा रोगाः (३) मनसो भ्रान्तिः, एते त्रयः, धार्मिकप्रवृत्तौ विघ्नरूपाश्च तेषां येन परिणामेन जयो भवति, स विघ्नजयः, साधूनां मोक्षमार्गे प्रवर्तमानानां क्षुत्तषाऽऽदिपरीषहाः प्राप्ताः स्युः, तेषां तितिक्षाभावनया सहनं प्रथमो विघ्नजघः, _____ साधूनां रोगाः स्युस्तदा विचारयेत् , मदीयस्वरूपवाधका न सन्ति, परन्तु देहमात्रस्य बाधका एवैवं भावनया सम्यग् धर्मस्याराधने समर्थत्वं भवेदिति, मध्यमविघ्नजयः, मोक्षमार्गे प्रवर्तमानानां साधूनां मिथ्यात्वादितो मनोविश्रमो यदि स्यात्तदा मिथ्यात्वस्य प्रतिपक्षभावनया मनोविश्रमं दूरे कुर्यादित्युत्तमो विघ्नजयः,)
SR No.022497
Book TitleLalit Vistarakhya Chaitya Stavvrutti
Original Sutra AuthorN/A
AuthorBhadrankarsuri, Vikramsenvijay
PublisherBhuvan Bhandrankar Sahitya Prachar Kendra
Publication Year1991
Total Pages550
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy