SearchBrowseAboutContactDonate
Page Preview
Page 523
Loading...
Download File
Download File
Page Text
________________ ललितविस्तरासंस्कृतटोका १७५ नानधिकारिणामिदं, अधिकारिणश्चास्य य एव वन्दनाया उक्ताः, तद्यथा-एतद्बहुमानिनो विधिपरा उचितवृत्तयश्चोक्तलिङ्गा एव, प्रणिधानलिङ्गं तु विशुद्धभावनादि, यथोक्तं-"विशुद्धभावनासारं, तदर्थापितमानसम् । यथाशक्तिक्रियालिङ्ग, प्रणिधानं मुनि गौ ॥ १॥” इति, स्वल्पकालमपि शोभनमिदं, सकलकल्याणाक्षेपात् , अतिगम्भीरोदाररूपमेतत् , अतो हि प्रशस्तभावलाभाद्विशिष्टक्षयोपशमादिभावतः प्रधानधर्मकायादिलाभः, तत्रास्य सकलोपाधिविशुद्धिः, दीर्घकालनैरन्तर्यसत्कारासेवनेन श्रद्धावीर्यस्मृतिसमाधिप्रज्ञावृद्ध्या, न हि समग्रसुखभाक् तदङ्गहीनो भवति, तद्वैकल्येऽपि तद्भावेऽहेतुकत्वप्रसङ्गात्, न चैतदेवं भवतीति योगाचार्यदर्शनम् , सेयं भवजलधिनौः प्रशान्तवाहितेति । ___ परैरपि गीयते-अयमज्ञातज्ञापनफलः सदुपदेशो हृदयानन्दकारी परिणमत्येकान्तेन, ज्ञाते त्वखण्डनमेव भावतः, अनाभोगतो भोगतोऽपि मार्गगमनमेव सदन्धन्यायेनेत्यध्यात्मचिन्तकाः॥ पं०..." स्वल्पेत्यादि " स्वल्पकालमपि-परिमितमपि कालं शोभनम् , उत्तमार्थहेतुतया "इदं” प्रणिधानं, कुत इत्याह-"सकलकल्याणाक्षेपात् " निखिलाभ्युदयनिःश्रेयसावन्ध्यनिबन्धनत्वाद्, इदमेव भावयति ___“ अतिगम्भीरोदारमिति ” प्राग्वत्, “ एतत्,” प्रणिधानं, कुत इत्याह-" अतः" प्रणिधानाद्, “हिः” यस्मात् "प्रशस्तभावलाभात्" रागद्वेषमोहैरच्छुप्तप्रणिधानप्राप्तः, किमित्याहविशिष्टस्य-मिथ्यात्वमोहनीयादेः शुद्धमनुजगतिसुसंस्थानसुसंहननादेश्च कर्मणो यथायोगं क्षयोपशमस्य-एकदेशक्षयलक्षणस्यादिशब्दाद्बन्धस्य भावतः-सत्तायाः प्रेत्यप्रधानधर्मकायादिलाभप्रधानस्य दृढसंहननशुभसंस्थानतया सर्वोत्कृष्टस्य धर्मकायम्य-धाराधनार्हशरीरस्यादिशब्दादुज्ज्वलकुलजात्यायुर्देशकल्याणमित्रादेलाभः-प्राप्तिः, ततः किमित्याह-"तत्र" धर्मकायादिलाभे "अस्य" प्रणिधानकर्त्तः “सकलोपाधिविशुद्धिः" प्रलीननिखिलकलङ्कस्थानतया सर्वविशेषशुद्धिः,
SR No.022497
Book TitleLalit Vistarakhya Chaitya Stavvrutti
Original Sutra AuthorN/A
AuthorBhadrankarsuri, Vikramsenvijay
PublisherBhuvan Bhandrankar Sahitya Prachar Kendra
Publication Year1991
Total Pages550
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy