SearchBrowseAboutContactDonate
Page Preview
Page 473
Loading...
Download File
Download File
Page Text
________________ ललितविस्तरासंस्कृतटीका १२५ नुसारिबुद्धिमत्सु पुरुषेषु, शब्दवचननिरपेक्षार्थ ज्ञानक्रियास्वरूप-वचनसाध्यसामायिकादि-अर्थस्वीकाररूपवचनार्थ-प्रतिपत्तिः प्राप्यते, 'यदेतत्त्वयाकथित, स्वतो ज्ञातं अथवा कृतं' एवं प्रकारकप्रकृताऽर्थविरोध-संगतिरूप-संवादस्य सिद्धत्वेन, क्वचित्-विशिष्टयोग्यतासंपन्न–प्रज्ञापनीयपुरुषे वचनसाध्यार्थ-प्रतिपत्ति दृश्यते. एवं वचनस्य पौरुषेयत्वसिद्धया व्यक्ति-अपेक्षया (शंगग्राहिकया-प्रत्येकसर्व-सर्वदर्शिनोऽपेक्ष्य) ज्ञेयम् कश्चिदेकोऽनादिशुद्धसर्वदर्शी, वचनस्य वक्ता मान्यः' एवंवादापत्तिदोषो नास्ति, यतः सर्वः सर्वदर्शी तथा पूर्वोक्तप्रकारस्वभावयुक्तत्वेन वचनपूर्वक एव परन्तु प्रवाहाऽपेक्षया, अनादिशुद्धो मान्य एव यतः प्रवाहोऽनादिरस्ति, एवं वचनं तु पौरुषेयमेवाऽस्ति, पुरुषोच्चरितं ततः कस्याश्चिद्व्यक्तेरपेक्षया, अनादिशुद्धपरमात्मवाद-प्रतिपत्तेरापत्ति स्ति, अनादित आगच्छन्ती, काचिदेका व्यक्ति स्ति, यः सर्वज्ञो वक्ता भवेत् , प्रत्येक- सर्वज्ञाः पूर्वोक्तवत् वचनपूर्वका अभूवन् , सर्वज्ञपरम्पराऽपेक्षया तु अनादिशुद्ध-सर्वज्ञत इष्टोऽस्ति, यतः सर्वज्ञ-प्रवाहोऽनादितश्चलन्नस्ति, ततोऽस्माकमपि युष्माभिर्मीमांसकैः पूर्व-कथितवद् वस्तुगत्याऽपौरुषेयवचनापत्ति स्ति, 'सर्वज्ञसिद्धि ' आदि शास्त्रे विस्तारोऽस्याऽस्ति, ततो ज्ञेयं विशेषार्थिना । तदेवं श्रुतधर्मादिकराणां स्तुतिमभिधायाधुना श्रुतधर्मस्याभिधित्सुराह "तमतिमिरपडलविद्धंसणस्स सुरगणनरिंदमहिअस्स। सीमाधरस्स वंदे पप्फोडिअमोहजालस्स ॥ २॥" अस्य व्याख्या-तमः-अज्ञानं तदेव तिमिरं तमस्तिमिरं, अथवा तमः-बद्धस्पृष्टनिधत्तं ज्ञानावरणीयं निकाचितं तिमिरं तस्य पटलं-वृन्दं तमस्तिमिरपटलं तद्विध्वंसयति-विनाशयतीति तमस्तिमिरपटलविध्वंसनः तस्य, तथा चाज्ञाननिरासेनैवास्य प्रवृत्तिः, तथा "सुरगणनरेन्द्रमहितस्य" तथा ह्यागममहिमां (मानं) कुर्वन्त्येव सुरादयः, तथा सीमांमर्यादां धारयतीति सीमाधरः तस्येति कर्मणि षष्ठी, तं वन्दे,
SR No.022497
Book TitleLalit Vistarakhya Chaitya Stavvrutti
Original Sutra AuthorN/A
AuthorBhadrankarsuri, Vikramsenvijay
PublisherBhuvan Bhandrankar Sahitya Prachar Kendra
Publication Year1991
Total Pages550
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy