SearchBrowseAboutContactDonate
Page Preview
Page 472
Loading...
Download File
Download File
Page Text
________________ १२४ ललितविस्तरासंस्कृतटीका (१) एकतः शास्त्रं 'तप्पूविया अरहया' इति वाक्यतः सर्वे, अर्हन्तो प्रथमो वा मध्यमो वा (कोऽप्यर्हन् वचनपूर्वक एव भवति) वचनपूर्वका भवन्तीति कथयति शास्त्र, (२) जैनमतं, शैवमतमान्यानादि-शुद्ध-सदाशिववत् , अथवा पातञ्जलदर्शनमान्यानादिशुद्धबुद्धपुरुषवत् , अनादिशुद्धःकश्चिदर्हन्नेवानादितः-प्रथमतो न मन्यते, अतो जैनमतमस्तकेऽनादिशुद्ध-परमात्मवाद-प्रतिपत्तिरापतेदेतत्स्वशास्त्रवाधकं कथ्यते, अर्थादनादिशुद्धः कश्चिदेक आद्योऽर्हन् न भवतीति, तथा च पुरुषस्य (कण्ठताल्वादेः संयोगस्य) व्यापारस्याऽभावे वचनस्याऽनुपपत्त्या, अपौरुषेयनित्यवचनं न सिद्धं भवति, यतः कश्चिदर्हन् भगवान्, पूर्वागमवचनं विना सञ्जातो भवेत् , एतन्न सम्भवति, ये सञ्जातास्ते वचनपूर्वका एवार्थात् (पूर्वे सर्वज्ञो नास्ति पश्चाद्वचनपूर्वक-भूत-संजातवत् ) अनादिशुद्ध भगवद् भवनमिति कथनमेव तद् विरुद्धं, एते वचनपूर्वका एव भवेयुः, बीजाजकुरदृष्टान्ताच्च, अनादित्वेऽपि वचनस्य प्रवाहतः परम्परामपेक्ष्य, सर्वज्ञस्यऋषभादि-व्यक्तिरूपस्य प्रागभूतस्य भवनमिव वक्तृव्यापार-पूर्वकत्वमेवाखिलवचनस्य, लौकिकादिभेदभिन्नस्य समस्तवचनस्य वक्तृव्यापारपूर्वकत्वमेव, एतद्वचनं पूर्वीयसर्वज्ञेनोच्चरितता, अर्थात् प्रत्येकवचनमपि, आदिमत् सर्वज्ञश्चाप्यादिमान् । 'बीजाकुरवत्प्रवाहतोऽनादिः' एवमनादितोऽहंदागमयोः परम्परा प्रचलति, तथापि बीजाकुरन्यायेन प्रवाहतोऽनादिरस्ति, व्यक्तिदृष्टया, अर्हन्नुत्पद्यते, आगमोऽप्युत्पद्यते यथा बीजतोङ्कुरः,अङ्कराच्च बीजं, किञ्च बीजतोऽङ्कुरोत्पत्तिः, अकुरतो बीजोत्पत्तिरित्येवं धाराऽविच्छिन्ना चलति, तथाऽत्र, अर्हतोऽप्यागमो जायते, आगमतोऽप्यर्हन् जायते, किश्चैतदहतोऽप्यागमः, आगमतोऽप्यर्हन्निति प्रवाहः एवं प्रचलति. अर्थात् प्रस्तुतमागमवचनं अर्थ-ज्ञान-शब्दमयमस्ति (अर्थागम-ज्ञानागम-शब्दागमभेदेन त्रिधा) अतः कश्चित् केवली शब्दागमापेक्षया वचनपूर्वको नास्ति, यथा स्वयमेव पक्वभव्यत्वा मरुदेव्याद्याः, (शब्दागर्म विना तत्र कैवल्यं जातं) आगमोक्तपदार्थज्ञानेन विना तत्रापि सर्वदर्शित्वं सिद्धं, तथापि निश्चयनयतो वचनार्थाभेदापेक्षया वचनपूर्वकताऽस्ति, किश्च विशिष्टक्षयोपशमादितो मार्गानुसारिबुद्धिमतां, आगमं विनाऽपि आगमार्थबोधो जायते, यतःक्वचिदेव दृश्यते, यतः तत्र संवादद्वारेण (आगमोक्तैः सह शब्दं विनैव स्वतो ज्ञाता-चरितयोः एकता द्वारेण) प्रस्तुतपदार्थस्य वचनेन सहाव्यभिचारित्वं सिद्धम् , एवं च व्यक्ति-अपेक्षया, न, अनादिशुद्धबुद्धवादापत्तिः । तथा च-विशिष्ट-दर्शनमोहनीयादिविषयक्षयक्षयोपशमोपशमैः, सम्यग्दर्शनादिरूपमोक्षमार्गा--
SR No.022497
Book TitleLalit Vistarakhya Chaitya Stavvrutti
Original Sutra AuthorN/A
AuthorBhadrankarsuri, Vikramsenvijay
PublisherBhuvan Bhandrankar Sahitya Prachar Kendra
Publication Year1991
Total Pages550
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy