________________
१८
ललितविस्तरासंस्कृत टीका
मा वादीः, यतः पुष्पादिजीवारम्भतः पूजा सावद्या दृश्यते परन्तु, अनुबन्धापेक्षयोत्तरोत्तरभाववृद्धितः पूजा निरवद्याऽस्ति यतः पूजाकाले जिनेन्द्राणां गुणा अति बहुमता भवन्ति ततः शुभध्यानं प्रवर्त्तते, यस्माच्च येन पापबन्धो भवतीदृशासद् (मलिन) आरम्भतो निवृत्तिर्भवति, वीतरागप्रभोर्बहुमानेन भावो निर्मलो भवति, ततश्चित्तशुद्धिर्भवति, अन्योऽपि लाभो भवति य ज्जिनेन्द्रपूजामच दृष्ट्वा भव्यानां भव्यभाव उल्लसत्येव, तच्छुभभावबलेन, षट्जीवनिकायरक्षको भूत्वा भवजलात्तरति यथा नदीमुत्तरतो मुनेर्दया परिणामो मिथ्या नास्ति तथा श्रावकस्य पूष्पपूजादिकं कुर्वतोऽपि पुष्पादिजीवोपरि दयापरिणामः (निः शुकत्वाभावभावः) मिथ्या नास्ति, किञ्च जैनी पूजा रोगिण औषधसमाऽस्ति, गृहिश्रावकस्तु, असदारम्भरूपरोगवानस्ति, तदसदारम्भरोगोपशमनाय सद् (शुभ) आरम्भरूपौषधसमा जिनपूजाऽस्ति, अपि च मुनिस्तु सर्वसावद्य - योगतो विरतोऽस्ति, तेषां कोऽपि, असदा रम्भरूपो रोगो नास्त्येव ततः कथं रोगं विनौषधम् ?
शङ्का = जिनपूजायां मनोवचोवपूरूपशुभयोगेन, द्रव्याश्रवो जायते ततो निजपरिणामरूपधर्मः कथं न हन्यते ?
समाधानं = जिनपूजया निजपरिणामरूपो धर्मो न हन्यते, यावदात्मनो योगक्रिया न निवृत्ता, तावदात्मा योगारम्भवानस्ति, अर्थाद् यत् क्रियाकरणेन निजस्वभावपरिणतिरूपात्मधर्मो नष्टो भवेत्सा क्रिया न कर्त्तव्या, परन्तु वीतरागपूजया तु, आत्मधर्महानिर्न भवति प्रत्युतात्मधर्मे पुष्टिर्भवति, तत एव जिनपूजायामादरः किं न कर्त्तव्यः ? अपि तु कर्त्तव्य एव, जिनपूजा करणेन द्रव्याश्रवो भवति, तथाऽपि साऽऽत्मधर्मपोषकत्वेन पूजाऽवश्यंकरणीया आदरणीया. यावन्मनोवचः कायरूपयोगक्रिया न निवृत्ता, तावत्ते शुभे वाऽशुभे मार्गे प्रवर्तन्ते ततस्तु योगत्रयेण जिनपूजारू पशुभमार्गे प्रवर्त्तमानस्य श्राद्धस्य को विद्वान् निषेधयेत् ? श्रावको गृही तु असदारम्भी वर्त्ततेऽर्थाद् येन पापं बध्यते तादृशारम्भं करोति, तस्मात्संसारसागरं तरीतुं श्रावणाऽवश्यं जैनी पूजा कार्या.
शङ्का = द्रव्यस्तवेन पुण्यं बध्यते, ततश्च तत्स्वर्गस्य कारणम्, अपि च मोक्षस्य कारणं नास्ति, ततः कथं स कर्त्तव्यः !
समाधानं = द्रव्यस्तवोऽवश्यं करणीयः, यतो द्रव्यस्तवो भावस्तवस्य कारणमस्ति, अत आत्मधर्मप्रकटनकारकत्वेनाऽवश्यमादरणीयः, यथा स्वर्गस्य कारणं सराग - संयमोऽस्ति तथापि सरागसंयमो गृह्यते, तथाऽत्रापि ज्ञेयं,
शङ्का = द्रव्यस्तव एषोऽप्रधानस्तवोऽस्ति, अतस्तं त्यक्तवा भावस्तवः केवलं कथं न क्रियेत !