SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ ललित विस्तरा संस्कृत टीका १७ धर्मस्य जिमपूजासत्कारविषये इच्छातिरेकादसन्तोषस्वभावो ( कृतयोरपि एतयोर्न संतोष इति स्वरूपो ) वर्त्तते, एतदेव स्पष्टयति ', जिनपूजा - जिनसत्कारयोः पुनरपि पुनः करणलम्पट एव यः सचित्ताऽऽरम्भवर्जननामका - ऽष्टम-प्रतिमाया अभ्यासात्, आद्यः प्राक्कालभावी, देशविरतिपरिणामः - श्रावकस्याध्यवसायो भवति, यतो निजावस्थाया आनुरूप्यरूपौचित्यद्वारा प्रवृत्तिरतस्तत्प्रवानतावान् श्रावकाऽध्यवसायो वर्त्तते, किमौचित्यमत्रेति चेदुच्यते तत एव पृथिव्याद्यारम्भवतः 'आरम्भिण : ' श्रावकस्य पूजासत्कारावेतावुचितौ - योग्यावेव यतः सन् - जिनविषयतया सुन्दरः, आरम्भ:-ट — पृथिव्याद्युपमर्दस्तद्रूपौ -सदारम्भरूपौ पूजासत्कारौ वर्चेते. ( मुनेर्निर्मलाशयपूर्वक - तया नद्या उत्तारे हिंसा न कथिता, यद्यपि नद्या उत्तारे जीवविराधनाऽस्त्येव तथापि विधिना, यतनया, शुभाशयतया नद्या उत्तारे मुने हिंसा न कथिता, तथा विधियोगेन शुभभावेन यत्तनया जिनेन्द्राणां पूजाऽपि निःश्रेयस - निबन्धनम्, एषा जिनपूजा सोपयोगं सशुभभावं भवति, तस्मात्, जिनपूजादौ, अपरिमितारम्भमान्यतावन्तः स्वयं भवजले पतन्ति, अन्यश्च पातयन्ति, यस्यां क्रियायां विषयारम्भत्यागोऽस्ति, सा क्रियानित्यं भवजलतारिणी कथ्यते यतः संसारहेतुभूत - विषयारम्भः पापवर्धको भवति, तथापि यः सदारम्भोऽस्ति ततोऽशुभभावान्निवृत्तिश्च पापक्षयो भवति, जिनेन्द्रपूजया वीतरागदेवस्य गुणानां ध्यानं भवति, वीतरागविषयक गुणध्यानरूप - शुभभावतो विषयारम्भत्यागतो निर्भयताऽऽयाति अत एव जिनपूजादिकं सदारम्भरूपमस्ति, तत्र चाशुभभाव निवृत्तिरूपो महान गुणोऽस्ति. ) अन्यच्च प्रतिमापूजनेन विनयो भवति, विनर्योऽतरङ्गतपस्त्वेन कथ्यते, यतः प्रभोः प्रतिमाविनयेन शुभभावो भवति, शुभभावेन च जीव: मुक्तिगतिप्राप्तये भाग्यवान् भवति. यः कश्चित् प्रतिमापूजायामारम्भं मत्वा जिनेन्द्रं न पूजयति, तन्न युक्तं यतः प्रतिमापूजने आरम्भवादी, कि दान, वन्दनं, आदेशादिक्रियां न विदधाति ? दानवन्दनादिक्रियायां क्रियमाणायां किं वायुकायादि - जीवस्य विराधना न भवति ? दानादिधर्म-प्रवृत्ति - स्वीकारं विना किं चलति ? दानादिप्रवृत्तौ क्रियमाणायां वायुकायादिर्ज वविराधनाया आशयो नास्ति. अपि तु शुभाशयो वर्त्तते, तर्हि तदुत्तरे विज्ञापनमस्ति यत् पूजायां क्रियमाणायामपि जलकाया दिजीव विराधनाया भावो नास्ति परन्तु शुभाशयोऽस्ति पुष्पादिजीवा रम्भतः पूजा सावद्येति
SR No.022497
Book TitleLalit Vistarakhya Chaitya Stavvrutti
Original Sutra AuthorN/A
AuthorBhadrankarsuri, Vikramsenvijay
PublisherBhuvan Bhandrankar Sahitya Prachar Kendra
Publication Year1991
Total Pages550
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy