SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ ललित विस्तरासटीका सम्पदः सन्दर्भः कृतोऽस्ति. एतत्सम्पद एव पञ्चसु पदेषु परार्थसम्पादन रूपोपयोगफलं निहितमस्ति, अत एषा 'सामान्योपयोगसम्पद्' कथ्यते. अर्थात् सर्वलोके परमार्थसम्पादनरूपोपयोग फलसम्पादकत्वेन, सर्वलोकस्योपकारकत्वेन सदाकालमर्हन्तो—भगवन्तः स्तोतव्या एवेति. (५) जिज्ञासुप्रश्नः = स्तोतव्यसम्पदः सामान्येनोपयोगसम्पद्रपा चतुर्थी सम्पत्- ज्ञाता तथाऽपि विशुद्धितो निपुणारम्भभाजः = निपुणता - सुनिश्चयपूर्वकारम्भ ( प्रवृत्ति ) कारकाः प्रेक्षापूर्वकारिणः पृच्छन्ति. येऽर्हतो भगवन्तः सर्वलोके सामान्येन परार्थं सम्पादयन्ति कस्य कस्य द्वारा - अर्थात् लोकेभ्यो कस्य कस्य दानं दत्त्वोपकुर्वन्ति ? उपयोगसम्पदः हेतु ( उपाय साधनं ) विज्ञापयन्तु भवन्त इति. समाधानं=एतत्प्रश्नस्य प्रत्युत्तररूपेण सूत्रकारः कथयति, 'अभयदेभ्यो, चक्षुर्देभ्यो, मार्गदेभ्यो, शरणदेभ्यो, बोधिदेभ्यो नमो नमः' इति उपयोगसम्पदो हेतुसम्पद् व्यवस्थिता, अभय-दानादिद्वारा सकललोकेषु सामान्यतः परमार्थसम्पादनरूपोपयोगरूपफलजनकत्वेन परमदानवीराः - महामहोदाराः – महासमर्थाः सदा स्तोतव्या एव. (६) जिज्ञासुप्रश्नः=पञ्चम्याः सम्पदः समीचीनत्वेन बोधो जातः, तथापि सामान्यविशेष रूपफलद्वयप्रेक्षिणां प्रेक्षापूर्वकारिणां जिज्ञासोद्भवति यद् एतेऽर्हन्तो भगवन्तो हेतुपूर्वकं सर्वलोकसम्बन्धेन—सामान्यतः ( समष्टिरूपेणव्यापकरूपेण ) परार्थसम्पादनरूपोपयोगफलं ज्ञातं तथापि, अर्हतां भगवतां विशेषतः ( व्यष्टिरूपेण ) परमार्थसम्पादनरूपोपयोगफलं कि कि ? समाधानम्= एतस्या जिज्ञासायाः पूर्त्तये ' धर्मदेभ्यो, धर्मदेशकेभ्यो, धर्मनायकेभ्यो, धर्मसारथिभ्यो, धर्मवरचा तुरन्तचक्रवर्तिभ्यो नमोऽस्तु' एतद्रूपा पदपञ्चकवती षष्ठी, स्तोतव्यसम्पदो विशेषत उपयोगसम्पदो योजना कृता, एतेऽर्हन्तो भगवन्तो विवक्षितेषु वा विशिष्टेषु, अधिकारिभव्येषु धर्मदानद्वारा, धर्मदेशकत्वद्वारा धर्मनायकत्वद्वारा, धर्मसारथित्वद्वारा, धर्मचक्रवर्त्तित्वद्वारा, विशेषतः परमार्थसंपादनरूपोपयोगरूपफलविधातृत्वेन भव्यै र्भावभरनिर्भर हृदयतः सततं स्तोतव्या एव. (७) जिज्ञासुप्रश्नः = षष्ठी - सम्पदः सम्यकतया ज्ञातृत्वेऽपि विशेषस्य (वैशिष्ट्य - विशिष्टस्वरूपस्य) अथवा विशेषतो निश्चयं प्रति प्रेमधारकाणां प्रेक्षापूर्वकारिणां जिज्ञासा जागर्ति यद् ' एतेषामर्हतां भगवतां कीदृशं किं अदभुतं अलौकिकं स्वरूपमस्ति ? यतः स्तोतव्याः स्युस्ते ? 262
SR No.022497
Book TitleLalit Vistarakhya Chaitya Stavvrutti
Original Sutra AuthorN/A
AuthorBhadrankarsuri, Vikramsenvijay
PublisherBhuvan Bhandrankar Sahitya Prachar Kendra
Publication Year1991
Total Pages550
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy