SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ ललितविस्तरासटीका ( तीर्थकरस्यात्मानः पुरुषोत्तमाः-उत्तमोत्तमकोटीका गण्यन्ते, एतद्विषये क्षेमंकरगणी, एतादृश-महापुरुष-उत्तमोत्तम-प्राणिनोऽङ्गे षट्पुरुष चरित्रे-कथयति, यत् तीर्थकरनामकर्म विपाकोदयभोक्तृ-(त्रिलोकीनाथ-ईश्वर-सर्वगुणसंपन्न-परमात्म ) तीर्थकरस्यात्मानो, उत्तमोत्तमविभागे आगच्छन्ति, ईशा विशुद्धात्मानोऽव्यवहारराशिस्थास्तदाऽपि गुणेष्वपि-अन्यजीवेभ्यो विशिष्टाभवन्ति, तत्रापि तेषां रत्नत्वमाच्छादितं भवति, व्यवहारराशावागच्छेयुस्तदा यदि पृथ्वीकाये उत्पद्यन्ते, तदा चिन्तामणिरत्नत्वं प्राप्नुयुः, अप्सु जायन्ते तदा तीर्थजलादिके उत्पद्यन्ते, यदि तेजस्काये जायन्ते, तदा आरात्रिक-यज्ञमङ्गलदीपकादावनौ नायन्ते, यदि वायुकाये जायन्ते, तदा वसन्ततुकालीने मृदुमधुरसुरभितपवने भवन्ति, वनस्पतिकाये जायन्ते तदा कल्पवृक्ष-सहकारे प्रतापवत्यौषध्यां जायन्ते, तथैव द्वीन्द्रिये दक्षिणावर्त्तशङ्खादावेव जायन्ते, तिर्यकपञ्चेन्द्रियेषूत्तमगजाश्वादो जायन्ते, एव रीत्या सर्वगत्यादौ सर्वोत्तमस्थानेषु जायन्ते, प्रान्ते यदा तीर्थकरा भाविनस्तदा तेषां जननी, च्यवनकाले चतुर्दश महास्वप्नान् पश्यति, श्रीमन्तस्ते गर्भकालादारभ्य त्रिभिमा॑नः सहिता गर्भकालतो देवास्तेषां पितुर्गृहे धनानि धान्यानि वर्षयन्तिवर्धयन्ति स्म, इत्यादि प्रतीतमेव. ) एते तीर्थकरात्मानोऽनादिकालतः सदाकालं सर्वत्र सर्वगतिषु सर्वप्राणिभ्य उत्तमोत्तमा अतो उत्तमोत्तमत्वस्थानसंपन्ना भवन्ति, अर्हन्तो भगवन्तः केन विशिष्टकारणेन स्तूयन्ते ? इति पूर्वोक्तविशिष्टजिज्ञासापूर्वथै विशिष्टहेतुना वर्णयति 'पुरुषसिंहत्वेन, पुरुषवरपुण्डरीकत्वेन, पुरुषवरगन्धहस्तित्वेन, पुरुषोत्तमाः' सन्ति, अत एवाऽर्हन्तो भगवन्तो विशेषतः स्तोतव्याः सन्ति, वीतरागस्तुतेविशेषहेतुभूता ये चत्वारो हेतवो दर्शिताः सन्ति, ते, असाधारणाः= तीर्थकरात्मद्रव्यभिन्नेषु-अन्यात्मद्रव्येषु, अविद्यमानत्वेनासाधारणरूपा अतएवास्याःसम्पदो नाम 'असाधारणरूपा हेतुसम्पदुक्ता'ऽस्ति । (४) जिज्ञासुप्रश्नः यद्यपि-असाधारणरूपहेतुसम्पदःसम्यगयोघेऽपि — फलप्रधान आरम्भ इति सल्लोकनीतितः' प्रवृत्तिः फलप्रधाना कर्त्तव्या अर्थान्नकुर्यान्निष्फलं कर्मे'ति सल्लोकनीतिःशिष्टाचारः, परम्परया फलप्रधाना-फलस्य प्रधानतावानारम्भःकार्य इति स्वभाववन्तःप्रेक्षापूर्वकारिणःसन्त्यतो ज्ञातुमातुरता भवति. यथा सामान्यतः सर्वलोकपरमार्थसम्पादनरूपोपयोगफलसम्पादनकर्तार एतेऽर्हन्तो भगवन्तःसन्ति न वा ! समाधानम् एतत्प्रश्नसमाधानरूपेण 'लोकोत्तमेभ्यो, लोकनाथेभ्यो, लोकहितेभ्यो, लोकप्रदीपेभ्यो, लोकप्रद्योतकरेभ्यो नमोऽस्तु ' इतिरूपेण स्तोतव्य-सम्पद एव सामान्येनोपोयोग 261
SR No.022497
Book TitleLalit Vistarakhya Chaitya Stavvrutti
Original Sutra AuthorN/A
AuthorBhadrankarsuri, Vikramsenvijay
PublisherBhuvan Bhandrankar Sahitya Prachar Kendra
Publication Year1991
Total Pages550
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy