SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ ललितविस्तरा-सटीका पं०"पुनरागमकर्मकत्वेन" पुनरागमनं-प्रत्यावृत्त्य-कर्तर्येव क्रियाफलभूतापायभाजनीकरणेन कर्म यस्य स पुनरागमकर्मकोऽचेतनाहितयोगस्तस्य भावस्तत्त्वं तेन, उपचरितोहितभावो न मुख्यभावकार्यकारी, माणबकाग्नित्ववत्, अचेतनाहितयोगस्तु प्रत्यावृत्त्य स्वकर्तर्येव क्रियाफलमपायमुपरचयन्परवधाय, दुःशिक्षितस्य शस्त्रव्यापार इव तमेव घ्नन् कथमुपवरितः स्याद् ?, एवं तहि सचेतनेष्वप्यहितयोगः पुनरागमकर्मक एव प्राप्त इति परवचनावकाशमाशकुयाह-"सचेतनस्यापि" जीवास्तिकायस्येत्यर्थोऽहितयोग इति गम्यते, अचेतनस्य त्वस्त्येवेत्यापिशब्दार्थः, "एवंविधस्यैव" अचेतनसमस्यैव क्रियाफलभूतेनापायेन रहितस्यैवेत्यर्थों, "न" नैव 'अयं" प्रकृतो चेतनाहितयोग "इति" एतस्य पूर्वोक्तस्यार्थस्यं दर्शनार्थः, ख्यापक इति भावः अहितयोगात सचेतने कष्मिश्चिक्रियाफलस्यापायस्यापि भावात्, ननु यद्यचेतनेषु क्रियाफलमपायो न समस्ति, कथं तथालम्बनप्रवृत्ताहितयोगाक्षिप्तं तेषां कर्मत्वमित्याह"कर्तृव्यापारापेक्षमेव" मिथ्यादर्शनादिक्रियाकृतमेव "तत्र" अचेतनेषु कर्मत्वम्, अवधारणफलमाह-"न पुनः स्वविकारापेक्षं" न स्वगतापायापेक्षं. ननु कथमित्थं कर्मभाव इत्याशङ्कयाह-"कङ्कटकपकृतावित्थमपि दर्शनादिति" कङ्कटकानां-पाकानर्हाणां मुग्दादीनां पक्ती-पचने इत्थमपि-स्वविकाराभावेऽपि दर्शनात-कर्मत्वस्य ककूटुकान्पचतीति प्रयोगप्रामाण्यादिति, एवं चाचेतनेषु हितयोगोऽपि मुख्य एव कर्तृ व्यापारापेक्षयेति न तत्कारणिकत्वेन स्तवविरोध इति । टी०...तथाहि = अचेतन-पदार्थगताहितयोगः (मिथ्यादर्शनप्ररूपणादिरूपोऽपायहेतुापारः) असत्यः-उपचरितो नास्ति, कथमिति चेदुच्यते, आवृत्तिप्रक्रियाऽत्रोपयुज्यते, अचेतनाऽहितयोगः, प्रथमं तावत् अचेतनं प्रति तादृशचेष्टाद्वारा गत्वा, अचेतनेऽपायरूपं फलमकृत्वा, पुनरागमनं -प्रत्यावृत्य (प्रत्यावृत्त्या) पश्चादागत्य, पुनरेतादृशचेष्टां द्वितीयसमयेन (वारेण) कृत्वा तादृशचेष्टाकर्तरि एव. तादशक्रियाफलरूपायभाजनीकरणद्वारा, अर्थात् तादृशक्रियाकर्तारं तादृशक्रियाफलरूपाश्रयं कृत्वा कर्तारमेव कर्म, कर्तृ कर्म, यत्र स पुनरागमकर्मकोऽचेतनाहित-योग उच्यते, एतादृशविशिष्टाहितयोगत्वेनार्थ-क्रियाफलाश्रयरूप कर्मतापन्नः कर्ता भवति तादृशक्रियाऽपि कर्तरि, तादृशक्रियाफलापायोऽपि कर्तरि, तादृशावृत्तिप्रक्रियाद्वारा फलाश्रयत्व सिद्धे, तादृशाचेतनगताऽहितयोगो नोपचरितोऽपितु, मुख्यभावकार्यकारी-तादृशाहितयोगः-स्वार्थशक्तिमान् जात:-शक्यार्थत्वेन सिद्ध एव, अचेतनाहितयोगसिद्धये दृष्टान्तः कथ्यते, अचेतनाहितयोगस्तु प्रत्यावृत्य (पुनरागत्य) स्वकत्तरि (अचेतनाहितकतरि) एव (नान्यत्र) क्रियाफलमुपरचयति-करोति यथा दुःशिक्षितस्य परवधायरचितः शस्त्रव्यापारः (शस्त्रक्रिया) तमेव दुःशिक्षितमेव ध्नन् कथमुपचरितो-निष्फलः, अन शस्त्रव्यापार-कर्तक एव परवधमुद्दिश्य कृतोऽपि शस्त्रव्यापारः, दुःशिक्षाकारणेन स्वकर्तर्येवापायफलमायातम्, कर्ता कर्म भवति, क्रियाफलयोः सामानाधिकरण्यं जातमेव, कथायां श्रीपालहत्या हेतवे गतो धवलः, स्वशस्त्रव्यापारः, सचेतनं श्रीपालमहत्व व दुर्बुद्धिकारणेन स्वात्मानं हतवान् अत्र कर्तृकर्मणोरक्यं जात । 123
SR No.022497
Book TitleLalit Vistarakhya Chaitya Stavvrutti
Original Sutra AuthorN/A
AuthorBhadrankarsuri, Vikramsenvijay
PublisherBhuvan Bhandrankar Sahitya Prachar Kendra
Publication Year1991
Total Pages550
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy