________________
ललितविस्तरा - सटीका
तथा - एवमत्र, विपरीतबोधादिपापहेतुमान् पापकर्त्ता पुरुषोऽवश्यं भवति तदा, यश तथाविधकार्यरूपपापभाव एव स्यात्,
पापकर्त्तरि सत्येव तथाविधकार्यरूप (कर्म) पापबन्ध: स्यात्, तथाविध कार्यरूप (कर्म) पापबन्धसत्तायां विपरीतबोधादिहेतुमान् पापकर्त्ता पुरुषोऽवश्यं भवति, एवं कर्त्ता कर्मापेक्षते, कर्म कर्तारमपेक्षते, कर्त्ता, कर्म विना न भवति. ( कस्य कर्तेति प्रश्नो भवति) कमं, कर्त्तारं विना न भवति (केन तत् क्रियते इति प्रश्नो भवति) ( कर्तृकर्मणोरविनाभावः सम्बन्धः सुतरामागच्छत्येव . ) अत्र - इदं स्थितं भवति, विपरीतबोधादिचेष्टा, अनिष्टा सापाया, हितयोगविपरीतत्वात् ( हेतुः ) यत्र यत्र हितयोग विपरीतत्वं तत्र तत्र विपरीतबोधादिचेष्टायां सत्यां अनिष्टत्वं प्रत्यपायजनकत्वं सिद्धं, किञ्च विषयं प्रति अहितयोगत्वं विपरीतबोधादिचेष्टागतंप्रत्यपायजनकत्वेन भाव्यपायपरिहा भावसहितविपरीत बोध- दर्शनप्ररूपणादिचेष्टाकर्त्तरि, सिद्धमेव.
ननु विपरीत विशिष्ट निहक्त - चेष्टाया विषयभूतेष्वचेतनपदार्थेषु विपरीत - विशिष्टचेष्टाद्वारा, अहितयोगत्वां कथं ? यतोऽहितयोगसाध्यस्य क्रियाफलरूपापायस्यानिष्टस्य अचंतनपदार्थेषु कदाचिदपि सम्भवो नास्त्येव, यदि, अचेतनपदार्थगतोऽहितयोग उपचार आरोविषयः कथ्यते तदाऽचेतनपदार्थगतहितयोगोऽपि, उपचरितः आरोपितः - कल्पितो भवेदित्यापत्तिः, अतिप्रसङग आगच्छेत् । अन्यच्च भगबतामर्हतां स्तवे (स्तोत्रे - स्तुतौ उपचरितत्वाद्विशिष्टस्य प्रयोगो ( शब्द रचनाविशेषो) न भवति, यतो भगवदर्हत्स्तवः, सद्भूतार्थ (अनुपचरित - वास्तविक - सत्यार्थ ) विषयको भवति, अचेतनगतहितयोगस्य सत्यस्याभावात् कथं सवं लोकहिता अर्हन्तो भगवन्त इति चेदुच्यते धर्माऽस्तिकायादिरूपेष्वचेतनपदार्थेषु, अपाय (अनिष्ट - अनर्थ ) स्य हेतुभूतो मिथ्या (विपरीत) दर्शनप्ररूपणादिरूपव्यापारः (विशिष्ट चेष्टारूप क्रिया) उपचरित आरोपितो नास्त्येव परन्तु अनुपचरितः - सद्भूतः - सत्य एव तदाऽचेतनविषयं प्रति हिनयोगस्तु सुतरां सत्यत्वेनाऽनुपचरितत्वेन सिद्ध एव. ( यथाग्निर्माणवक: ( विदूषकः ) इत्यादिप्रयोगेषु 'अग्नित्व' मुपचरितं वर्तते, अत्रापि न तथैव ( 'अग्निमणिवकः' इत्यत्राग्निपदशक्यार्थस्याग्निनिष्ठशचित्वकान्त्यादि - सजातीय- शुचित्वकान्त्यादि बिशिष्टे लक्षणा, शक्यात्यागेन लक्षणयाऽन्यार्थ - बोधनमुपचारः, यथा मञ्चाः क्रोशन्ति, अग्निर्माणवक इत्यादी, अन तु अन्त्रयाऽनुपपत्तिरेवोपचारबीजम् । )
पुनरागमकर्म्मकत्वेन सचेतनस्यापि एवंविधस्यैव नायमिति दर्शनार्थः । कर्तृ व्यापाराऽपेक्षमेव तत्र कर्मत्वं, न पुनः स्वविकारापेक्षं, कङ्कटुकपक्तावित्थमपि दर्शनादिति लोकहिताः १२ ॥
122