SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ ललितविस्तरा-सटीका टी०...अर्थात् प्रस्तुत-योग्यताप्रक्रान्तसम्बन्धयोः कार्यकारणभावे सिद्धे, तवान्वयव्यतिरेकप्रक्रियां घटयति. प्रस्तुतयोग्यतारूपकारणाभावे सति प्रक्रान्तसंबंधरूपकार्यसत्ता नास्ति, इति व्यतिरेकः प्रस्तुतयोग्यताऽत्र कारणं, प्रक्रान्तसम्बन्धः कार्यम्, प्रस्तुतयोग्यतासत्तायां प्रक्रान्तसम्बंधरूपकार्यसिद्धिः, ततोऽधिकृतजन्मादिप्रपञ्चसत्ता, एवं च पूर्वोक्तव्यतिरेकस्य मान्यतायां वक्ष्यमाणातिव्याप्तिरूपातिप्रसंगनामकदोषस्य व्याघातो-निवारणं भवति, यदि प्रस्तुतयोग्यताया अभावे प्रक्रान्तसंबंधरूपकार्यस्य मान्यतायां, अतिव्याप्तिः = कारणाभावप्रयुक्तकार्योत्पत्तिरूपव्यतिरेकव्यभिचार आयाति (वादिनो ऽग्रतोऽतिप्रसंगनामकदोषरूपो महाव्याघ्र उत्थापित: स्यात्तदा स स्वयमेव प्रकृतयोग्यताया अभावे प्रस्तुत-संबंधस्याभावरूपं व्यतिरेकं स्वीकरिष्यति, इत्युद्दिश्यातिप्रसङग उत्थापितः, अथाऽतिप्रसङगं प्रदर्शयति ये कर्मसंबंधप्रपंचरहिता मुक्ताऽऽत्मानः सन्ति तेषु प्रस्तुतयोग्यताया अभावोऽस्ति, तत्र प्रक्रान्तसम्बन्धस्य प्रतिपत्ती, अनिष्टमहानिष्टजन्मादिप्रपंचस्यातिप्रसङग-आपत्तिः स्यादेव, यतो युष्माकं मते प्रस्तुतयोग्यताया अभावे प्रक्रान्तसंबंधस्य विरोधो नास्त्येव, इदमन हृदयम् 'भो आत्माऽकर्तृत्ववादिन् । यदि त्वं प्रस्तुतयोग्यताया अभावे प्रक्रान्तसंबंधोऽस्ति, इति कथयसि तदा मुक्ताऽऽत्मसु किमपितु मुक्तात्मभिन्न-सर्व-जीवाऽऽत्मसु त्वन्मतेन नित्यप्रक्रान्तसंबंधोऽस्तीत्यनिष्टनित्यजन्मादि-प्रपंचस्यापत्ति:-अतिप्रसङगः-निर्विवाद भविष्यति) वस्तुतः प्रस्तुतविषयः = प्रस्तुतयोग्यतासत्त्वे प्रक्रान्तसम्बन्धसत्तारूपेणान्वयेन, प्रस्तुतयोग्यताया अभावे, प्रक्रान्तसम्बन्धस्या भावरूपेण व्यतिरेकेण सूक्ष्मधिया विचारणीयः ।। न च तत्तत्कर्माण्वादेरेव तत्स्वभावतयाऽऽत्मनस्तथा सम्बन्धसिद्धिः, द्विष्ठत्वेन अस्योभयोस्तथास्वभावापेक्षित्वात्, अन्यथा कल्पनाविरोधात्, न्यायानुपपत्तेः, न हि कर्माण्वादेस्तथाकल्पनायामप्यलोकाकाशन सम्बंधः, प०...'नच' नैव तद यदुत-तत्तत्कण्विादेरेवोक्तरूपस्य 'तत्स्वभावतया' स आत्मना सह सम्बन्ध योग्यतालक्षणः स्वभावो यस्य तत्तया तद्भावस्तता तया, आत्मनो-जीवस्य तथा' सम्बन्धयोग्यतायामिबास्मदभ्युपगतायां सम्बन्धसिद्धिः कर्माण्यादिनेति; कुत इत्याह-'द्विष्ठत्वेन' दयाश्रयत्वेनास्य-सम्बन्धस्योभयो:--आत्मनः कग्विादेश्च तथास्वभावापेक्षित्वात, विपक्षेबाधकमाह-'अन्यथा'मास्मनः सम्बन्धयोग्यस्वभावाभावे 'कल्पनाविरोधात' कण्विादेरेव स्वसम्बन्धयोग्यस्वभावेन आत्मना संबंधसिद्धिरिति कल्पनाया व्याघातात, कुत इत्याह -'न्यावानुपपत्तेः' न्यायस्य-शास्त्रसिद्धदृष्टान्तस्यानुपपत्तेः, न च तथासंबंधसिद्धिरिति योज्यं (ग्यं), न्यायानुपपत्तिमेव भावयन्नाह-'न' व 'हिः' यस्मात् 'कर्माण्वादेः' उक्तरूपस्य 'तथाकल्पनायामपि' अलोकाकाशे संबंधयोग्यस्वभावकल्पनायामपि, किं पुनस्तदभाव इत्यपिशब्दार्थः, किमित्याह-'अलोकाकाशेन' प्रतीतेन 'संबन्धः' अवगाहावगाहकसक्षणः, कुत एवं इत्याह टी...(१) उक्तरूपतत्तत्कर्माण्वादिनिष्ठाऽऽत्मना सह संबंधयोग्यता, स्वभावतयैव, आत्मनिष्ठकर्मादिना सह सम्बन्धयोग्यताया सत्यां कर्मादिना सह सम्बन्धसिद्धि नेति वाच्यम्, यतो याश्रयत्वेनास्य सम्बन्धस्यात्मनः कर्माण्वादेश्च तथायोग्यस्वभावापेक्षित्वात्, 68
SR No.022497
Book TitleLalit Vistarakhya Chaitya Stavvrutti
Original Sutra AuthorN/A
AuthorBhadrankarsuri, Vikramsenvijay
PublisherBhuvan Bhandrankar Sahitya Prachar Kendra
Publication Year1991
Total Pages550
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy