SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ ललितविस्तरा-सटीका निर्मलं सलिलं मधुरं करोति, तथाऽऽत्मनः प्रतिप्रदेशं समभिव्याप्य कर्म, आत्मानं कर्ममयं करोति, प्रतिस्कन्धं, अनंतानंताः परमाणवः सन्ति, एकैकवर्गणायामनन्तान्ताः स्कन्धाः सन्ति, एतादृश्योऽनन्तकार्मणवर्गणाः सूक्ष्मा अति स्निग्धा यदि स्युस्तदाऽऽत्मन एकं प्रदेशं लगितुं शक्नुवन्ति, अर्थादात्मना सह लेपतः पूर्व, एते योग्यस्कन्धाः केवलं कार्मण-वर्गणाः कश्यन्ते, यत्काले आत्मना सह लगित्वा मिश्रिताः स्युस्तदा तद्वर्गणा एव कर्मसंज्ञां लभन्ते तथा च कार्मणवर्गणायाः पुद्गलेषु जीवः स्वसत्तां स्थापयितुमेतादृशीं क्रियां करोति, यतस्तेषु, आत्मना सह लिप्तताया योग्यता-फलं जायते, तस्मा.दात्मना सह लिप्यमानायां तस्यां कार्मणवर्गणायां यदाऽऽत्मना सह संयुक्तताफलं जायते, तदा साऽपि कार्मण-वर्गणा कर्म कथ्यतेऽर्थाज्जीवः कर्ताऽस्ति, लिप्ताऽऽत्मना सह कार्मणवर्गणा, कर्म भवति, तादृशः संयोगः फलमस्ति, मिथ्यात्वाद्या हेतवः सन्ति, स्वेन सह संयोजनप्रयत्नरूपयोगनयरूपा, जीवस्य क्रियाऽस्ति. -- यथैवं व्याकरणे कतुः क्रियाफलाश्रयपदार्थसूचकं नाम कर्मत्वेन कथ्यते तथैवं, आत्मना सह सम्बध्यमाना कार्मणवर्गणाऽपि कर्मत्वेन व्यवहि यते.) एवं च निरुक्तयोग्यतारूपाऽऽत्मनिष्ठकर्तृत्वशक्तिद्वारा स्वपरोभयगतसमग्र-जन्मादि-कर्मादि-प्रपञ्चस्य कर्ताऽऽत्माऽस्ति, (अत्र साङख्याभिमतात्माऽकृतप्रपंचत्वरूपपरपक्षस्य खण्डनात्मकाऽन्ययोगव्यवच्छेदकविशेषणापेक्षया 'आदिकरत्व' विशेषणस्य सार्थक्यं दर्शितं, परन्तु स्वपक्षसाधनरूपायोगव्यवच्छेदकविशेषणाऽपेक्षया श्रुतपदमध्याहार्यं गणयित्वा 'श्रुतस्यादिकराः' इत्यपि व्याख्या कार्या, यतोऽर्हन्तोऽर्थत आत्मागमवन्तो भवन्तीति.) . विपक्षे बाधकमाह 'अन्यथा' कर्तृत्वेऽनधिकृते-आत्मनिष्ठकर्तृत्वाभावरूपमान्यतायां 'अधिकृतप्रफ चाऽसम्भवो' स्वपरोभयगतजन्मादिप्रपञ्चस्य समग्रस्यानुपपत्तिः = दृश्यमानः प्रपञ्चो न घटते इति. (अथवाऽधिकृत-भगवदादे भव आकस्मिको-निर्हेतुको भवेदतो वस्तुतो जन्मादिपूर्वक एव भवप्रपञ्चो मन्तव्यः) कुत इत्याहप्रस्तुतयोग्यतावैकल्ये प्रकान्तसम्बन्धासिद्धः, अतिप्रसंगदोषव्याघातात्, मुक्तानामपि जन्मादिप्रपञ्चस्यापत्तेः, प्रस्तुतयोग्यताऽभावेपि प्रकान्तसम्बन्धाविरोधादिति परिभावनी यमेतत् ॥ पं०...'प्रस्तुतयोग्यतावैकल्ये' प्रस्तुताया-अनादावपि भवे तदा तदा तत्तत्कर्माण्वादिसंबन्धनिमिताया योग्यताया:-कतत्वलक्षणाया अभावे.."प्रक्रान्तसंबंधासिद्ध:' प्रक्रान्त:-प्रतिविशिष्टः कर्माण्वादिभिः संबंधस्योक्तरूपस्यानिष्पत्तेः, एतदपि कुत इत्याह-अतिप्रसंगदोषव्याघाताद' एवमभ्युपगमे योऽतिप्रसंग:-अतिव्याप्तिः स एव दोषः, अनिष्टत्वात्तेन व्याघातो निवारणं, प्रकृतयोग्यतावैकल्ये प्रस्तुतसंबंधस्य, तस्माद, अतिप्रसंगमेव भावयति-'मक्तानामपि निर्वतानामप्यास्तामन्येषां 'जन्मादिप्रपञ्चापत्तेः जन्मादिप्रपंचस्यानिष्टस्य प्राप्तः, कत इत्याह-'प्रस्तुतयोग्यताऽभावेऽपि' प्रस्तुतयोग्यतामन्तरेणापि 'प्रक्रान्तसम्बन्धाविरोधात' तत्तत्कण्विादिभिः सम्बन्धस्यादोषाद्, आत्माकर्तृत्ववादिनामित्येवमन्वयव्यतिरेकाभ्यां भावनीयमेतत् । अथ पराशङ्कां परिहरन्नाह 67
SR No.022497
Book TitleLalit Vistarakhya Chaitya Stavvrutti
Original Sutra AuthorN/A
AuthorBhadrankarsuri, Vikramsenvijay
PublisherBhuvan Bhandrankar Sahitya Prachar Kendra
Publication Year1991
Total Pages550
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy