SearchBrowseAboutContactDonate
Page Preview
Page 726
Loading...
Download File
Download File
Page Text
________________ तृतीय: किरण: अथ चारित्रिणां सामायिकादीनां निरूपणे कृतेऽपि प्रकारान्तरेण चारित्रणोनिरूपयितुमाह સામાયિકાદિ ચારિત્રનું નિરૂપણ કર્યું, છતાં બીજા પ્રકારથી તે ચારિત્રવંતોનું નિરૂપણ કરવામાં આવે છે. तद्वान् चारित्रीत्युच्यते । स पञ्चविधः पुलाकबकुशकुशीलनिर्ग्रन्थस्नातकभेदात् ।१ । तद्वानिति । करणचरणरूपचारित्रविशिष्ट इत्यर्थः । तस्य भेदानाह पुलाकेति । પુલાકાદિ નિરૂપણ નામક ત્રીજું કિરણ ભાવાર્થ – “ચારિત્રવાળો પુલાક-બકુશ-કુશીલ-નિર્રન્થ-સ્નાતકના ભેદથી પાંચ પ્રકારનો છે.” વિવેચન – તે વાળો એટલે કરણચરણરૂપ ચારિત્રથી વિશિષ્ટ, તેના ભેદો પુલાક વગેરે કહેલા છે. तत्र पुलाकं स्वरूपयति सङ्घादिप्रयोजनाय सबलचक्रवर्त्तिविध्वंससामर्थ्योपजीवनज्ञानाद्यतिचाराऽऽसेवनान्यतरेण दोषवान् जिनागमादप्रतिपाती च पुलाकः, स द्विविधः लब्धिपुलाकस्सेवापुलाकश्चेति, देवेन्द्रसम्पत्तिसदृशसम्पत्तिमान् लब्धिविशेषयुक्तः पुलाको लब्धिपुलाकः । सेवापुलाकस्तु ज्ञानदर्शनचारित्रलिङ्गयथासूक्ष्मभेदेन पञ्चविधः ॥ २ ॥ — सङ्घादीति । तन्दुलकणशून्या पलञ्जिः पुलाको लोके प्रोच्यते निस्सारत्वात् । तद्वदयं चारित्री सारभूतानां ज्ञानदर्शनचारित्राणामतिचारानासेवते तपश्रुताभ्यामुत्पन्नां लब्धि भ प्रयुङ्क्ते च समये, जिनप्रणीतादागमादनवरतमप्रतिपाती च सम्यग्दर्शनज्ञानचरणानि निर्वाणकारणानीति श्रद्धानो ज्ञानानुसारेण क्रियानुष्ठायी च तत्र संघादिप्रयोजने सबलवाहनस्य चक्रवर्त्यादेरपि चूर्णने समर्थायास्तपः श्रुतहेतुकाया लब्धेरुपजीवनेन ज्ञानाद्यतिचारासेवनेन वा
SR No.022496
Book TitleTattvanyaya Vibhakar Part 02
Original Sutra AuthorN/A
AuthorLabdhisuri, Bhadrankarsuri, Vikramsenvijay
PublisherLabdhibhuvan Jain Sahitya Sadan
Publication Year2013
Total Pages776
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy