SearchBrowseAboutContactDonate
Page Preview
Page 719
Loading...
Download File
Download File
Page Text
________________ ६७२ तत्त्वन्यायविभा प्रतिलिखेत्, ततश्चोलपट्टं ततस्त्रयोदशभिः प्रतिलेखनाभिः स्थापनाचार्यं प्रतिलिख्य स्थाने संस्थाप्य मुखवस्त्रिकां प्रतिलिखेत्, ततश्चैकेन क्षमाश्रमणेनोपधिसन्देशमाप्य द्वितीयेन तेनोपधि प्रतिलिखेत्, तत्र पूर्वमौर्णं कल्पं ततस्सौत्रं कल्पद्वयं ततस्संस्तारकं ततश्चोत्तरपट्टमिति प्रतिलेखनाक्रमः । उपयुक्तस्सन्नेषां प्रत्युपेक्षणां कुर्यात्, तथा च षण्णामाराधको भवति, अकरणे च दोषाः । ततश्च जाते सूर्योदये शेषमप्युपधि प्रतिलिख्य वसतिं ततो दण्डं प्रमार्जयेत्, प्रतिलेखनं चक्षुषा निरीक्षणं प्रमार्जनञ्च रजोहरणादिभिरिति भेदेऽपि अविनाभावित्वेन तयोः प्रतिलेखनाशब्देनैव लक्षितं मूलेन । इति प्रातः प्रतिलेखना भाव्या । ततश्चरमपौरुष्यां प्राप्तायां पात्राणि प्रतिलेख्यानि तृतीयप्रहरान्ते मुखवस्त्रिकाचोलपट्टगोच्छक पात्रप्रतिलेखनिकापात्रबन्धपटलरजस्त्राणपात्रस्थापनमात्रकपतद्ग्रहरजोहरणकल्पत्रिकाण्यनुक्रमं प्रत्युपेक्षणीयानि, तथाऽन्योऽप्यौपग्रहिकोपधिः, प्रत्युपेक्षणीयः । उद्घाटपौरुष्याञ्च सप्तविधपात्रनिर्योगप्रत्युपेक्षणा भवति, तत्रासने समुपविष्टः प्रथमं मुखवस्त्रिकां प्रत्युपेक्ष्य गोच्छकं प्रत्युपेक्षते ततः पटलानि ततः पात्रकेसरिकां ततः पात्रबन्धं ततो रजस्त्राणं ततः पात्रं ततः पात्रस्थापनमिति, अत्र अरुणोदयादावावश्यंक पूर्वमेव कृत्वा तत अरुणोद्गमसमये प्रत्युपेक्षणा क्रियते । अपरे त्वाहुः अरुणे उद्गते सति प्रभायां स्फुटितायां सत्यामावश्यकं पूर्वं कृत्वा ततः प्रत्युपेक्षणा क्रियत इति, अन्ये त्वाहुर्यदा परस्परं मुखानि विभाव्यन्ते तदा प्रत्युपेक्षणा क्रियत इति, इतरे त्वाहुर्यस्यां वेलायां पाणिरेखा दृश्यन्ते तदानीमिति, वेलायाञ्च न्यूनायामधिकायां वा प्रत्युपेक्षणा न कार्या, तत्र जिनकल्पिकानामोघोपधिर्द्वादशविधः, स्थविरकल्पिकानां चतुर्द्दशविधः, आर्याणां पञ्चविंशतिविधः । अत ऊर्ध्वं यथासम्भवमौपग्रहिकोपधिर्भवति ॥ પ્રતિલેખનાનું વર્ણન ભાવાર્થ “આગમના અનુસારે વસ્ર-પાત્ર આદિનું સારી રીતે નિરીક્ષણપૂર્વક પ્રમાર્જન, એ 'प्रतिलेखना' 'हेवाय छे. - વિવેચન – ‘લિખધાતુ અક્ષરવિન્યાસના અર્થમાં છે. તે લિખધાતુ પ્રતિ ઉપસર્ગની સાથે છે. તેને ભાવમાં લ્યુટ્ (અન્) પ્રત્યય લાગી શ્રીલિંગમાં ‘પ્રતિલેખના' એવો શબ્દ સિદ્ધ થાય છે. ઉપસર્ગના મહિમાથી ધાતુનો અર્થભેદ થતો હોવાથી શાસ્ત્રના અનુસારે વસ્ર આદિનું નિરીક્ષણ, એવો અર્થ થાય છે. વળી તે પ્રતિલેખના સર્વ ક્રિયાની મૂળભૂત છે અનેક પ્રકારવાળી પણ તે વસ્ર-પાત્ર આદિ પદથી દિનચર્યામાં ઉપયોગી ઉપકરણ વિષયવાળી અહીં કહેલી છે.
SR No.022496
Book TitleTattvanyaya Vibhakar Part 02
Original Sutra AuthorN/A
AuthorLabdhisuri, Bhadrankarsuri, Vikramsenvijay
PublisherLabdhibhuvan Jain Sahitya Sadan
Publication Year2013
Total Pages776
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy