SearchBrowseAboutContactDonate
Page Preview
Page 696
Loading...
Download File
Download File
Page Text
________________ द्वितीयो भाग / सूत्र - ३३, द्वितीयः किरणे ६४९ रुचकेति । अनुक्रमेणेति, तारकाणां जघन्या स्थितिः पल्योपमस्याष्टमो भाग उत्कृष्टा तु पल्योपमस्य चतुर्थो भाग इत्येवं क्रमेणेत्यर्थः, तारकाणां विमानानीति, ज्योतिष्कविशेषाणां विमानप्रस्तारा इवि भावः, तत ऊर्ध्वमिति, तारकविमानादूर्ध्वमित्यर्थः, सहस्राधिकेति, उत्कृष्टत इदमिति विज्ञेयम्, जघन्यतस्तु सूर्यचन्द्रनक्षत्रग्रहाणां पल्योपमचतुर्थभागः, यद्यपि सूर्याचन्द्रमसोः कनीयसी स्थितिर्न संभवति तथाप्येषु विमानेषु नाकिनस्त्रिविधास्सन्ति विमाननायकाः तत्सदृशाः परिवारसुराश्चेति, तत्र नायकतत्सदृशापेक्षया परा स्थितिः परिवारदेवापेक्षया तु जघन्या विज्ञेया, एवं ग्रहविमानादिष्वपि, अत एव सहस्राधिकपल्योपमायुष्केति पदस्य सूर्यविशेषणत्वाज्जघन्या स्थिति!क्ता, एवमग्रेऽपि । चन्द्रविमानमाह तदुपरीति सूर्यविमानोपरीत्यर्थः, नक्षत्रग्रहाणां विमानान्याह ततोऽपीति चन्द्रविमानादपीत्यर्थः, विंशतियोजनेष्विति, विंशतियोजनेषु मध्ये इत्यर्थः । नक्षत्रग्रहाणामिति, नक्षत्राणां ग्रहाणाञ्चेत्यर्थः ग्रहा मङ्गलादयः, कीदृशानामित्यत्राहार्धपल्येति, उत्कर्षेणार्धपल्योपमायुष्काणां नक्षत्राणामेकपल्योपमायुष्काणाञ्च ग्रहाणामित्यर्थः, एते मनुष्यक्षेत्रान्तर्वर्तमानाश्चन्द्रसूर्यनक्षत्रग्रहतारारूपा विमानोपपन्ना मण्डलगत्या परिभ्रमणमाश्रिताश्चारसहिताः स्वभावतो गतिरतिकास्साक्षाद्गतियुक्ता देवा इति मनुष्यक्षेत्राबहिर्वर्तिनश्चन्द्रादयस्तु विमानोपपन्ना अवगतचारा नोगतिरतयो नवागतियुक्ताश्च तात्स्थ्यात्तद्व्यपदेश इति न्यायादिति भावः । तत्र मानुषोत्तरपर्वताबहिर्वतिनां चन्द्रसूर्याणां तेजांस्यवस्थितानि भवन्ति तेजसा नात्युष्णास्सूर्याः सर्वदैवानतिशीततेजसः चन्द्रास्सर्वदाभिजिता नक्षत्रेण चन्द्राः सूर्याश्च पुष्येण युक्ता भवन्ति तत्र जम्बूद्वीपे द्वौ चन्द्रौ द्वौ सूर्यो चत्वारो लवणोदे द्वादश धातकीखण्डे द्वाचत्वारिंशत्कालोदे द्वासप्ततिरभ्यन्तरपुष्करार्धे सर्वसंख्यया चन्द्रसूर्याणां प्रत्येकं द्वात्रिंशं शतं भाव्यम् । नक्षत्रपरिमाणन्तु मनुष्यलोके अष्टाविंशतिसंख्यां द्वात्रिंशेन शतेन गुणयित्वा भाव्यम् ॥ આ પ્રમાણે તીચ્છલોકમાં મનુષ્યનિવાસયોગ્ય ક્ષેત્રોને કહીને જયોતિષ્ઠનિવાસયોગ્ય પ્રદેશને કહે છે. રુચકપ્રદેશનું વર્ણન ભાવાર્થ – “ચક નામક સમતલ પ્રદેશથી ઉંચે ૭૯૦ યોજનના અંતે અનુક્રમથી જઘન્યથી અને ઉત્કૃષ્ટથી પલ્યોપમના આઠમા ભાગ તથા ચોથા ભાગના આયુષ્યવાળા તારાઓના વિમાનો છે. તેનાથી ઉંચે દશ યોજનામાં એક પલ્યોપમ ઉપર હજાર વર્ષના આયુષ્યવાળા સૂર્યનું વિમાન છે. તેના ઉપર ૮૦ १. जम्बूद्वीपे एकः सूर्यो मेरोदक्षिणभागे चारं चरन् वर्तते, एक उत्तरभागे, एकश्चन्द्रमा, मेरोः पूर्वभागे, एकोऽपरभागे॥
SR No.022496
Book TitleTattvanyaya Vibhakar Part 02
Original Sutra AuthorN/A
AuthorLabdhisuri, Bhadrankarsuri, Vikramsenvijay
PublisherLabdhibhuvan Jain Sahitya Sadan
Publication Year2013
Total Pages776
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy