SearchBrowseAboutContactDonate
Page Preview
Page 487
Loading...
Download File
Download File
Page Text
________________ ४४० तत्त्वन्यायविभाकरे करोमीति व्यवहारात्, कृतस्यैव करणे न क्रियावैफल्यमपि, क्रिययैव निष्ठां जनयित्वा कार्यस्य कृतत्वोपपादनात् । न चान्योऽन्याश्रयः, कृतस्यैव क्रियाजन्यत्वात् कृतमेव च क्रियां जनयति नाकृतमसत्त्वादिति वाच्यम्, घटत्वादिनैव क्रियायाः कार्यकारणभावात्, अर्थादेव तस्य कृतत्वोपपत्तेः । क्रियमाणस्य कृतत्वाभावे च क्रियासमये कार्याभावे ततः पूर्वं पश्चाच्च तन्न स्यादेव, कारणाभावात् । सामग्याः स्वसमये कार्यव्याप्यत्वाभावेऽपि अव्यवहितोत्तरसमयावच्छेदेन तद्व्याप्यत्वोपगमान्न दोष इति चेन्नाव्यवहितोत्तरत्वप्रवेशे गौरवेणोत्तरत्वमात्रप्रवेशे व्यवहितोत्तरकालावच्छेदेन कार्योत्पत्तिप्रसङ्गेन च स्वसमयावच्छेदे नैव सामग्याः कार्यव्याप्यत्वोपगमस्योचितत्वात् । कारणाभावस्य कार्याभावव्याप्यत्वेन कारणोत्तरकाले कार्यासिद्धेश्चेति दिक् । सङ्ग्रहसम्मतं सामान्यमनुपयोगादनुपलम्भाञ्च व्यवहारनयेन यथा नेष्यते तथैव स्वप्रयोजनासाधकत्वेन परधनवनिष्फलमतीतिमनागतं वस्तु ऋजुसूत्रेण नेष्यते किन्तु साम्प्रतकालीनमेव लिङ्गवचनभिन्नमपि वस्तु स्वीक्रियते तत्रैकमपि त्रिलिङ्गं यथा तटस्तटी तटमित्यादि । तथैकमप्येकवचनबहुवचनवाच्यं यथा गुरुर्गुरवः, आपो जलं, दाराः कलत्रमित्यादि, एवमिन्द्रादेर्नामस्थापनाद्रव्यभावरूपचतुर्भेदमपीष्यते, सोऽयं नयो द्विभेदस्सूक्ष्मस्थूलभेदात् सूक्ष्मस्तु क्षणिकपर्यायं मनुते पर्यायाणां स्ववर्त्तमानतायां क्षणावस्थायित्वस्यैवोचितत्वात् परतोऽवस्थान्तरभेदादिति, स्थूलस्तु मनुष्यादिपर्यायं वर्तमानं मनुते, न त्वतीतानागतादिनारकादिपर्यायम् । व्यवहारेण तत्स्वीकारादेतदपेक्षया स्थूलत्वमिति । अथर्जुसूत्रस्य दृष्टान्तमाह यथेति, वाक्येन ह्यनेन क्षणास्थायिसुखाख्यं पर्यायमात्रं प्राधान्येन प्रदर्श्यते तदधिकरणभूतमात्मद्रव्यन्तु गौणतया नार्म्यत इत्याशयमाहात्र हीति आदिना दुःखादिपरिग्रहः ॥ . . सूत्रनयना स्व३५नुंवान ભાવાર્થ – “દ્રવ્યને ગૌણ કરી પ્રાધાન્યરૂપે વર્તમાન ક્ષણવૃત્તિ પર્યાય માત્રના પ્રદર્શનનો વિશિષ્ટ અભિપ્રાય, એ “ઋજુસૂત્રનય' કહેવાય છે. જેમ હમણાં સુખપર્યાય છે, દુઃખપર્યાય છે અથવા ફ્લેષપર્યાય છે. ઇતિ. અભિપ્રાયો ગૌણપણેeખરેખર, અહીં વિદ્યમાન પણ આત્મદ્રવ્ય પ્રધાનતયા વિવલિત કરાતું નથી, ગૌણપણે અનર્પિત થાય છે, પરંતુ સુખ આદિ પર્યાયો પ્રધાનથી પ્રકાશિત થાય છે.” १. घटं प्रति क्रिया कारणं नतु कृतघटं प्रति, येनान्योऽन्याश्रयः स्यात् तथा च कार्यतावच्छेदके कृतत्वं न प्रवेश्यते, तत्र कृतत्वस्य लाभश्च कारणसमाजाधीनः, यथा नीलघटत्वं न कपालादिकार्यतावच्छेदकं किन्तु नैल्यसामग्याः घटसामग्याश्च समाजात् नीलघटो भवति तथेति भावः ॥
SR No.022496
Book TitleTattvanyaya Vibhakar Part 02
Original Sutra AuthorN/A
AuthorLabdhisuri, Bhadrankarsuri, Vikramsenvijay
PublisherLabdhibhuvan Jain Sahitya Sadan
Publication Year2013
Total Pages776
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy