SearchBrowseAboutContactDonate
Page Preview
Page 451
Loading...
Download File
Download File
Page Text
________________ ४०४ तत्त्वन्यायविभाकरे पुरुषो वेति संशयः समुन्मिषति । साधकबाधकप्रमाणाभावाद्धि पुरोवर्तिनि यदा स्थाणुरयमिति निर्णेतुमभिलषति तदा पुरुषविशेषानुस्मरणबलेन पुरुषे समाकृष्यते, यदा च पुरुषोऽयमिति निश्चेतुमिच्छति तदा स्थाणुविशेषानुस्मरणमहिम्ना स्थाणावाकृष्यत इत्यनेकार्थे समाकृष्यमाणस्य प्रतिपत्तुरनवस्थितरूपतया दोलायमानः स्थाणुर्वायं पुरुषो वेति प्रत्ययः प्रादुर्भवतीति भावः । ननु कोट्योविरोधज्ञानमपि संशयकारणमस्ति तत्कुतो नोक्तमिति चेत्सत्यं, संशये तदधिकरणावृत्तित्वरूपविरोधस्य प्रकारत्वे तस्य तदभावव्याप्तिपर्यवसायित्वेन तदभावव्याप्यवत्तानिश्चयरूपसंशयप्रतिबन्धकसत्त्वात्तदभावस्य च कार्यसहभावेन हेतुत्वात्संशयमात्रस्य दुर्लभत्वापत्तेः किन्तु संशये तद्विरोधस्संसर्गतया भासते तस्य च पूर्वमुपस्थिति पेक्षितेति विरोधज्ञानं न संशयहेतुत्वेनोक्तम् । एवं गृहे स्थितस्य वाप्यामापस्सन्तीति ज्ञानं साधकबाधक प्रमाणाभावापेक्षया संशयात्मकं, तस्यानेकांशानुल्लेखित्वेऽपि न सन्तीत्यंशोऽन्तर्निगीर्णः स्फुरत्येवेति बोध्यम् । ननु किमयं संशयः प्रत्यक्ष एव भवति परोक्षेऽपि वेत्यत्राहायमिति, स्थाणुर्वा पुरुषो वेत्याकारकस्संशय इत्यर्थः, प्रत्यक्षर्मिक इति, सांव्यवहारिकप्रत्यक्षर्मिक इत्यर्थः । परोक्षधर्मिविषयकमाह परोक्षेति, अत्र गोत्वगवयत्वविषयकसाधकबाधकप्रमाणाभावाद्विशेषदर्शनेन शृङ्गेणानुमिते धर्मिणि परोक्षे संशय इति परोक्षधर्मिविषयक इति भावः ॥ संशयस्व३५नुं वान भावार्थ - "अनिश्चित भने अंश३५ शान संशय छे.भ3-स्था छ पुरुष छ ?' मा शान, સ્થાણુત્વ-પુરુષત્વમાંથી કોઈ એકનું નિશ્ચાયક અને પ્રતિષેધક પ્રમાણના અભાવથી ઉંચાઈ-લંબાઈપહોળાઈરૂપ સાધારણ ધર્મના દર્શનથી અને બે કોટિના વિષયક સ્મરણથી પ્રગટે છે. આ પ્રત્યક્ષ ધર્મીવાળો સંશય છે, પરોક્ષ ધર્મવિષયવાળો. જેમ કે કોઈ એક વનપ્રદેશમાં શીંગડા માત્રના દર્શનથી “આ બળદ છે કે रोज छ' भावो संशय छे." १. यथा पर्वतो वह्निमान्नवेत्यत्र वह्निः वयभावश्च प्रकारः, तत्र तदधिकरणावृत्तित्वरूपो विरोधोऽपि भासेत यदि तदा वह्नौ वह्नयभावाधिकरणावृत्तित्वस्य भाने तस्य वह्निव्याप्तिरूपत्वेन पर्वते वह्निव्याप्यवत्ताज्ञानेन वयभाववत्ताज्ञानं, वह्लयधिकरणावृत्तित्वस्य वह्नयभावे भाने च तस्य वह्नयभावाभावाधिकरणावृत्तित्वलक्षणवह्नयभावव्याप्तिरूपत्वेन पर्वते वह्नयभावव्याप्यवत्ताज्ञानात् वह्निमत्ताज्ञानं न स्यात् तद्वत्ताबुद्धि प्रति तदभावकारणस्यकार्याव्यवहित पूर्वक्षणे सत्त्वेन न संशयोत्पत्तौ बाधकः कश्चिदिति वाच्यम्, प्रतिबन्धकभावस्य कायव्याप्यवत्ताज्ञानस्य प्रतिबन्धकस्य सत्त्वात्, न च संशयोत्पत्तिकाले प्रतिबन्धकसत्त्वेऽपि प्रतिबन्धकाभावरूपकारणस्य कार्याव्यवहित पूर्वक्षणे सत्त्वेन न संशयोत्पत्तौ बाधकः कश्चिदिति, वाच्यम्, प्रतिबन्धकभावस्य कार्यकालवृत्तित्वेन हेतुत्वादित्याशयेनाह संशय इति ॥ २. तत्प्रकारकज्ञान एव तज्ज्ञानस्य हेतुत्वेन विरोधस्य संसर्गतया भाने न तज्ज्ञानापेक्षेति भावः ॥
SR No.022496
Book TitleTattvanyaya Vibhakar Part 02
Original Sutra AuthorN/A
AuthorLabdhisuri, Bhadrankarsuri, Vikramsenvijay
PublisherLabdhibhuvan Jain Sahitya Sadan
Publication Year2013
Total Pages776
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy