SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ २८२ तत्त्वन्यायविभाकरे यथान्वयव्यतिरेकव्याप्तिद्वयघटितव्याप्यविशेषणभूताऽन्वयव्याप्तिः नास्तित्वेनाविनाभावित्वात्, प्रयोर्गश्चास्तित्वं नास्तित्वेनैकधर्मिण्यविनाभावि, अस्तित्वनास्तित्वोभयघटितधर्मिविशेषणत्वात्, यस्त्वस्वेतरयदुभयघटितयद्धर्मिविशेषणं तत्तत्र तेनाविनाभावि, व्यतिरेकव्याप्त्यविनाभाविनीति । उक्तप्राया अपि पदार्था वाक्यार्थबोधजननशक्तेर्वाक्यनिष्ठाया उद्बोधकविधया हेतवोऽतः वाक्यार्थनिरूपणप्रस्तावेऽस्मिन् पदार्थानुपस्थापयति कण्ठतोऽत्रेति, अस्मिन् वाक्य इत्यर्थः, अनन्तधर्मवन्तमिति, अनन्तधर्मात्मकमित्यर्थः, सामान्यत इत्युक्तत्वेनानन्तधर्मान्तर्गततयाऽस्तित्वस्यापि बोधात्तब्दोधकास्तिपदं निरर्थकमित्याशङ्का गता, तस्य तथा सामान्यतो बोधेऽपि प्रातिस्विकरूपेण तब्दोधनाय विशेषपदस्यावश्यकत्वात्, यथा सर्वेषां वृक्षाणां वृक्षत्वेन बोधेऽपि विशेषवृक्षबोधार्थं पनसादिपदप्रयोगः । एकान्तबुद्धिविलक्षणबुद्धिविशेषविषयतावच्छेदकत्वेनेति तदर्थः । कथमनन्तधर्माणामेकशब्देन बोध इत्यत्राहाभेदप्राधान्येनेति, द्रव्यार्थिकनयेनाभेदस्य प्राधान्येनेति भावः । प्राधान्यञ्च शब्देन विवक्षितत्वाच्छब्दाधीनं बोध्यं, अभेदोपचारेण वेति, पर्यायार्थिकनयस्य प्राधान्ये मुक्यतयाऽभेदासम्भवेन तदुपचारादिति भावः, शब्दानुपात्तस्यार्थतो गम्यमानस्याप्रधानता बोध्या । स्यादित्यादिपदानां द्योतकत्ववाचकत्वयोरनेकान्तत्वेनानन्तधर्मात्मकस्य द्योतकं वाचकं वेत्यनुक्त्वा - ऽनन्तधर्मवन्तमाहेत्युक्तं द्योतकतया वाचकतया वा स्याच्छब्दोऽनन्तधर्मात्मकं वस्तु प्रकाशयतीति भावः, एवमग्रेऽपि । अस्तित्वधर्मवन्तमिति, अस्धातोस्सत्त्वपर्यवसन्नमस्तित्वं, आख्यातस्याश्रयत्वमर्थ इति मत्वाऽस्तित्वधर्मवन्तमित्युक्तं, आहेति, द्योतकतयेति शेषः, वाक्यार्थे पदमात्रस्य द्योतकत्वादिति भावः । अस्तित्वञ्च स्वद्रव्यक्षेत्रकालभावापेक्षया विवक्षितं, सत्पदमनुक्त्वाऽस्तिपदोपादानं विवक्षितस्वरूपावच्छिन्नसत्त्वाद्यपेक्षायै नैयायिकादिमतसिद्धसामान्यात्मकसत्त्वस्य लोकाप्रतीतस्याविवक्षितत्वसूचनाय च । तथा च स्वद्रव्याद्य १. एकस्मिन् काले तयोरविनाभावित्वेन सिद्धत्वात्सिद्धसाधनवारणायैकधर्मिणीति, विशेषणत्वमात्रोक्तौ नीलोत्पलमित्यादौ विशेषणे नीले चेतनो जीव इत्यादौ च जीवविशेषणे चैतन्ये लोकदृष्ट्या - ऽनीलाविनाभावित्वस्याचैतन्याविनाभावित्वस्य चासत्त्वात् पररूपेणाविनाभावित्वस्य साध्यसमत्वाद्वाऽस्तित्वनास्तित्वोभयघटितधर्मीति पदम् । तत्र सामान्यमुखीं व्याप्तिं दर्शयति यदिति । एवञ्च साधर्म्यस्य वैधर्म्येणाविनाभावित्वेनैतन्नये केवलान्वयी नास्त्येव । २. सामान्यतइत्यस्यार्थः । ३. ननु सर्वं वाक्यं सावधारणमिति न्यायेनाप्रयुक्तोऽपि यथैवकारो लभ्यते तथा वस्तुनोऽनेकान्तस्वरूपत्वादेवाप्रयुक्तोऽपि स्याच्छब्दो लभ्यत एवेति व्यर्थस्तत्प्रयोग इति मैवम्, विशिष्टविषयत्वे तात्पर्यास्फोरणेऽवच्छेदकास्फुरणात्सर्वथैकान्तशङ्काया अव्यवच्छेदेनाधिकृताया अनेकान्तप्रतिपत्तेरयोगात् एवमेवशब्दाप्रयोगेऽपि विवक्षितार्थस्य सदाद्ययोगव्यवच्छेदादिरूपस्याप्रतिपत्तिर्बोध्या ।
SR No.022496
Book TitleTattvanyaya Vibhakar Part 02
Original Sutra AuthorN/A
AuthorLabdhisuri, Bhadrankarsuri, Vikramsenvijay
PublisherLabdhibhuvan Jain Sahitya Sadan
Publication Year2013
Total Pages776
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy