________________
२४०
तत्त्वन्यायविभाकरे
અભાવ પ્રતીત થાય છે. પર્યદાસ સદફગ્રાહી પ્રસજયસ્તુ નિષેધકૃત) સિદ્ધસાધ્યતા છે, કેમ કે-ગોશબ્દથી વાચ્ય, અગોનિવૃત્તિરૂપ સામાન્યને અમોએ ભાવસ્વરૂપપણાએ ગોશબ્દ વાગ્યરૂપે સ્વીકારેલ છે, કેમ કેઅભાવને ભાવરૂપપણાએ વ્યવસ્થાપિત કરેલ છે.
૦ આપ લોકોએ માનેલ અશ્વ આદિ નિવૃત્તિ સ્વભાવવાળો ભાવ પણ અસાધારણ ગો આદિ સ્વલક્ષણસ્વરૂપી નથી, કેમ કે તે ભાવ, સકળ વિકલ્પનો અવિષય છે.
૦ વળી શાબલેય આદિ વ્યક્તિરૂપ ભાવ નથી, કેમ કે-અસામાન્યપણાનો પ્રસંગ છે. તેથી સઘળા શાબલેય આદિ પિંડોમાં (વિશેષોમાં) જે દરેકમાં વિશ્રાન્ત અને જેના મૂળ કારણભૂત ગોબુદ્ધિ છે, તે ગોત્વનામક સામાન્ય અન્ય અપહરૂપ છે. તે ગોશદ્વાચ્ય છે, અર્થાત્ સામાન્ય અને વિશેષ વસ્તુ જ ગો આદિ શબ્દવા છે. પ્રસજયપ્રતિષેધ તો તુચ્છ અભાવના અસ્વીકાર માત્રથી ખંડિત છે.
कोऽसौ यथार्थवक्ता भवेद्यद्वचनसम्भूतार्थविज्ञानमागमतया प्रमाणं स्यादित्यत्राह -
प्रक्षीणदोषो यथावस्थितार्थपरिज्ञाता यथावस्थितार्थप्रख्यापको यथार्थवक्ता, अयं द्विविधो लौकिकः पित्रादिर्लोकोत्तरस्तीर्थकरादिः ॥३॥
प्रक्षीणदोष इति । यादृशार्थविज्ञानं यादृशशब्देन प्रतिपिपादयिषितं तादृशशब्दार्थोभयसम्बन्धिदोषशून्यत्वं तदर्थः, अत्र शब्ददोषोऽसाधुशब्दत्वादिकः अर्थदोषोऽयथावस्थितत्वादिक उभयदोषो वाच्यवाचकत्ववैधुर्यादिको विज्ञेयः । यद्यपि वस्तुतः प्रक्षीणदोषत्वं रागद्वेषशून्यत्वमेव तथापि लौकिकाप्तसंग्रहायांशिकार्थो व्यावर्णितः । सर्वज्ञेऽप्यमर्थस्सङ्गच्छत एव, तस्यैवाखिलशब्दार्थोभयदोषशून्यत्वात् । यथावस्थितार्थपरिज्ञातेति, यथावस्थितत्वेनाभिधेयस्य प्रत्यक्षादिप्रमाणतः परिज्ञातेत्यर्थः, विना ज्ञानमुपदेशासंभवज्ञापनायेदं विशेषणम् । यथावस्थितार्थप्रख्यापक इति यथावस्थितार्थस्य यथाज्ञानं तथोपदेशक इत्यर्थः । यो हि भ्रमादर्थमन्यथाभूतं यथावस्थितत्वेन जानीते यथाज्ञानमभिधत्ते च तस्य यथार्थवक्तृत्ववारणाय प्रक्षीणदोष इत्युक्तम् । केवलमर्थस्य यथावस्थितत्वेन परिज्ञातुर्मूकादेरागमेऽनुपयुक्तत्वान्न स यथार्थवक्तेत्यतो यथावस्थितार्थप्रख्यापक इत्युक्तम् । तथा च यो यस्यावञ्चकस्स तस्याप्त इति वृद्धप्रणीतमृष्यार्यम्लेच्छसाधारणमाप्तलक्षणमनेनानूदितमिति विभावनीयम् । तादृशस्य पुरुषस्य तत्तदर्थबोधकतत्तद्वचनस्याविसंवादकत्वेन तावन्मात्रमाप्तत्वात् । तं विभजते अयमिति यथार्थवक्तेत्यर्थः, लोके सामान्यजने भवो लौकिकः, तस्योदाहरणमाह पित्रादिरिति, आदिना जनन्यादिपरिग्रहः । द्वितीयं भेदमाह-लोकोत्तर इति, लोकादुत्तरः प्रधान, मोक्षमार्गोप
-
१. नहि क्षीणदोषवचनं व्यतिरिच्यान्यतः प्रेक्षावतां परलोकादावदृष्टेऽर्थे प्रवृत्तिर्युक्ता अतस्तस्यैव वचनं परमं प्रमाणमिति भावः ॥