________________
द्वितीय भाग / सूत्र - २८ - २९, द्वितीय किरणे
अधायित् (१) मात्र दृर्शन अधायित्, (२) दर्शन अने अवग्रह अधायित्, (3) हर्शन-अवग्रह-र्धा ऽछायित्, (४) हर्शन-अवग्रह-हा-अपाय उधायित भने (५) हर्शन - अवग्रह-हा-अपाय-धारणा, भा प्रभाशे કહેલા ક્રમથી જ ઉત્પન્ન થતા છે. તેથી અસંકીર્ણ સ્વભાવપણાએ અનુભવાતા હોઈ, ભેદ હોવા છતાં એક જીવદ્રવ્ય તાદાત્મ્ય હોવાથી પ્રમાણપણાનો વ્યાઘાત નથી. [આ પ્રમાણે વ્યંજન-અર્થાવગ્રહના ભેદથી બે પ્રકારનો પણ અવગ્રહ, અવગ્રહ સામાન્યથી એકરૂપ છે. તેમજ અવિચ્યુતિ-વાસના-સ્મૃતિના ભેદથી ત્રણ પ્રકારની પણ ધારણા ધારણાત્વની અપેક્ષાએ એક પ્રકારની છે, માટે મતિજ્ઞાનભેદની અધિકતાની શંકા નહીં ४२वी.]
९१
ननु किं दर्शनादीनामयमेवोत्पत्तिक्रमः किं वा प्रकारान्तरेणापीत्याशङ्कायामाह—
तथा चायं क्रमः, इन्द्रियार्थयोर्योग्यताख्ये सम्बन्धे सति सन्मात्रं दर्शनाख्यं प्रथमतस्समुन्मीलति, इदं किञ्चिदिति । ततः केनचिज्जात्यादिनाऽवग्रहोऽयं मनुष्य इति ततोऽनिर्धारितरूपेण संशयोऽयं पौरस्त्यो वा पाश्चात्यो वेति । ततो नियताकारेण सम्भावनात्मिकेहाऽनेन पाश्चात्येन भवितव्यमिति । अनन्तरमीहिताकारेण निर्णयात्मकोऽपायोऽयं पाश्चात्य एवेति । ततः कालान्तरस्मृतिहेतुत्वेन धारणोदेतीति ॥ २९ ॥
तथा चेति । कथञ्चित्तेषां भेदे चेत्यर्थः क्रमः, उत्पत्तिक्रम:, तथैवानुभवात् तथैव तत्तदावरणक्षयोपशमभावादिति भावः । इन्द्रियार्थयोः - विषयविषयिणोः, योग्यताख्येयथायोगमनतिदूरासन्नव्यवहितदेशाद्यवस्थानरूपे संश्लेषरूपे वा सम्बन्धे, सन्मात्रं दर्शनाख्यं निःशेषविशेषवैमुख्येन निराकारो बोधः । तस्याभिलापकं शब्दप्रयोगमाह इदमिति, तत इति तदुत्तरकालमित्यर्थः, अदृष्टस्यावग्रहणाभावादिति भावः । केनचिज्जात्यादिनेति, सत्त्वव्याप्यमनुष्यत्वादिजातिविशिष्टत्वादिनेत्यर्थः । अवग्रह इति, उदेतीत्युत्तरस्थेनान्वयः । व्यावहारिका - ग्रहोऽयं,नैश्चयिकापायश्च । तत इति, विना विग्रहं संदेहाभावादिति भावः, अनिर्धारित रूपेणेतिकस्यापि विशेषधर्मस्यारूपलम्भेन नानाधर्मप्रकार तयेत्यर्थः, तत इति संशय-मन्तरेणेहाया अप्रवृत्तेरिति भावः । नियताकारेणेति यत्किञ्चिद्विशेषधर्मोपलम्भेनेत्यर्थः । संभावनात्मि
१. प्राथमिकनैश्चयिकार्थावग्रहापेक्षयास्यापायत्वेऽपि
भाविविशेषापेक्षया सामान्यस्य ग्राहकत्वाद्व्यावहारिकार्था वग्रहरूपत्वेन तदमिलापकशब्दसत्त्वे बाधकाभावादित्याशयेनाह तस्याभिलापकमिति ॥ २. नैश्चयिकार्थावग्रहो निरुपचरित एकसामयिकत्वात्सामान्यवस्तुमात्रग्राहकः सामयिकानि हि ज्ञानादीनि वस्तूनि परमयोगिन एवावगच्छन्तीति नैश्चयिक उच्यते, सामयिकत्वादेव चासौ न विशेषविषयः, विशेषज्ञानस्या - संख्येयसामयिकत्वात्, विशेषविषयकत्वे तस्याभ्युपगम्यमाने च निश्चयरूपत्वापत्त्या मतिमात्रस्यापायरूपत्वं स्यात्, निश्चयस्यापायत्वादित्यभिप्रायेण नैश्चयिकापायत्वं मूलोक्तावग्रहस्योक्तम्, छद्मस्थव्यवहारिभिस्तस्य व्यवह्नियमाणत्वात् व्यावहारिकोऽर्थावग्रह उपचरित इति भावः ॥