SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ तत्त्वन्यायविभाकरे ६० चक्षुः प्राप्यकारि तदा स्वदेशगतरजोमलाञ्जन-शलाकादिकं कुतो न पश्यति तस्मादप्राप्यकार्येव । ननु यदि चक्षुरप्राप्यकारि भवेत्तर्हि दूरव्यवहितानप्यर्थान् गृह्णीयात् मनोवत् न च तथा, किन्तु अनावृतमदूरभवमेवार्थं, तस्मिन्नेव तस्य सम्बन्धसम्भवात्, अन्यथाऽऽवरणभावादनुपलब्धिरन्यथोपलब्धिरिति न स्यात्, नहि तदावरणमुपघातकरणसमर्थम्, प्राप्यकारित्वे तु मुर्त्तद्रव्यप्रतिघातात्सम्भवत्यावरणादिकम्, मैवम्, दृष्टान्तस्य साध्यविकलत्वात्, न खलु मनोऽप्य शेषान् विषयान् गृह्णाति तस्यापि सूक्ष्मेस्वागमादिगम्येष्वर्थेषु मोहदर्शनात् तस्माद् यथा मनोऽप्यकार्यपि स्वावरणक्षयोपशमापेक्षत्वान्नियतविषयं तथा चक्षुरपि स्वावरणक्षयोपशमापेक्षत्वादप्राप्यकार्यपि योग्यदेशावस्थितनियतविषयमिति न व्यवहितोपलम्भप्रसङ्गो नापि दूरदेशस्थितानामिति । दृष्टञ्चैतदप्राप्यकारित्वेऽप्ययस्कान्तस्य स्वभावविशेषादेव योग्यदेशापेक्षणम् । अन्यथा सर्वाण्यप्ययांसि जगद्वर्त्तीनि तेन आकृष्येरन् न तु प्रतिनियतमेव । न चायस्कान्तोऽपि प्राप्यकारी, छायाणुभिस्समाकृष्यमाणवस्तुसम्बन्धात् छायाणूनां सूक्ष्मत्वादेव नोपलम्भ इति वाच्यम्, तद्ग्राहकप्रमाणाभावात् । न चाप्रमाणकं प्रतिपत्तुं शक्यमतिप्रसङ्गात् । न च यदाकर्षणं तत्संसर्गपूर्वकं, यथाऽयोगोलकस्य सन्दंशेन आकर्षणञ्चायसोऽयस्कान्तेन, तत्र साक्षादयसो - ऽयस्कान्तेन संसर्गस्य प्रत्यक्षबाधितत्वेऽपि सूक्ष्मछायाणुभिर्निर्वाह्य इति वाच्यम् हेतोरनैकान्तिकत्वात्, मन्त्रेण हि व्यभिचारः, स स्मर्यमाणो विवक्षितं संसर्गाभावेऽप्याकर्षि छायाणुभिरयांसीव काष्ठादीन्यप्याकृष्येरन् सम्बन्धाविशेषात् । न चास्ति तत्र शक्तिप्रतिनियम यति वाच्यम्, अप्राप्तावपि तेनैव निर्वाहे छायाणुकल्पनाया वैयर्थ्यात् । न च चक्षुः प्राप्यकारि व्यवहितार्थानुपलब्धेरिति प्रमाणं तत्साधकमस्तीति वाच्यम्, व्याप्त्यसिद्धेः काचाभ्रपटलस्फटिकैरन्तरितस्याप्युपलब्धेरिति न तस्य प्राप्यकारित्वमिति ॥ सम्प्रति चक्षुर्विषयभूतरूपप्रकारमाह रूपमिति । पञ्चविधमिति । एतद्व्यतिरिक्तहरितादिर्वणानां पञ्चविधवर्णेषु द्वयादीनां मेलनेन जायमानत्वान्नाधिकरूपशङ्का, अत एव ते हरितादयस्सान्निपातिका इति कथ्यन्ते, एते द्रव्यात्कथञ्चिद्भिन्नाः, कथञ्चित्तादात्म्यमेवा-नयोस्सम्बन्धो विशिष्टबुद्धिनियामकः, नीलो घटो नीलरूपवान् घट इति प्रतितेः, न तु समवायः, नीलो घट इत्यत्र नीलपदस्य विनाऽनुपपत्ति लाक्षणिकत्वापत्तेः, समवायस्य प्रमाणबाधितत्वाच्च । तथाहि समवायिभ्यस्स भिन्नोऽभिन्नो वा स्यात्, यद्यभिन्नस्तर्हि न कश्चन समवायोऽस्ति, समवायिभिरव्यतिरिक्तत्वात्तत्स्वरूपवत् । यदि भिन्नस्स कथं समवायिषु वर्तते सामस्त्येनैकदेशेन वा, यदि सामस्त्येन, तर्हि प्रतिसमवायि १. प्रयोगश्च चक्षुर्न विषयपरिणामवत् अप्राप्यकारित्वात् मनोवदिति, अप्राप्यकारित्वे सत्यपि, नाविशेषेण सर्वार्थेषु मनः प्रवर्त्तत इति व्यभिचारं ज्ञानदर्शनावरणादेः प्रतिबन्धकत्वञ्चाह दृष्टान्तस्येति ।
SR No.022496
Book TitleTattvanyaya Vibhakar Part 02
Original Sutra AuthorN/A
AuthorLabdhisuri, Bhadrankarsuri, Vikramsenvijay
PublisherLabdhibhuvan Jain Sahitya Sadan
Publication Year2013
Total Pages776
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy