SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ द्वितीयो भाग / सूत्र - १२-१३, द्वितीय किरणे ___ ५९ सातिरेकयोजनलक्षावस्थितं प्रकाशनीयरूपं गृह्णाति, जघन्यतोऽङ्गुलसंख्येयभागप्रमितदेशवर्ति रूपमिति । ननु चक्षुर्विषयभूतान् पदार्थान् स्पृष्ट्वा ज्ञानं जनयत्यस्पृष्ट्वा वेत्याशङ्कायामाहाप्राप्यप्रकाशकारीति । विषयदेशं स्वदेशे वा विषयमप्राप्यासंश्लिष्यैव वस्तु प्रकाशयतीत्यर्थः । ननु सर्वत्रेन्द्रियत्वे तुल्येऽपि नयनातिरिक्तानामिन्द्रियाणां प्राप्यकारित्वं नयनस्य मनसश्चाप्राप्यकारित्वमिति कुतो विशेष इति चेन्न, उपघातानुग्रहदर्शनाद्रसनादीनां प्राप्यकारित्वं, दृश्यते हि त्रिकटुकाद्यास्वादने, अशुच्यादिपुद्गलाघ्राणे, कर्कशकम्बलादिस्पर्शने, भेर्यादिशब्दश्रवणे तेषामुपघातः, क्षीरशर्कराधास्वादने, कर्पूरपुद्गलाघ्राणे, मृदुतूलिकादिस्पर्शने, मृदुमन्दशब्दाद्याकर्णनेऽनुग्रहः । नयनस्य निशितकरपत्रप्रोल्लसद्भल्लादिवीक्षणेऽपि पाटनाद्युपघातानवलोकनात् चन्दनागरुकर्पूराद्यवलोकनेऽपि शैत्याद्यनुग्रहाननु भवात् । मनसश्च वह्नयादिचिन्तनेऽपि दाहाद्युपघातादर्शनात्, जलचन्दनादिचिन्तायामपि पिपासोपशमनानुग्रहाऽसम्भवाश्च न प्राप्यकारित्वम् । न च नयनस्याप्राप्यकारित्वेऽनुग्रहोपघाताभावौ व्यभिचरतः, दृश्यते हि घनपटलविनिर्मुक्तं नैदाघार्यमाणं निरन्तरभवलोकयतश्चक्षुषो विघातः, राकानिशाकरकरनिकुरुम्बं तरङ्गमालामण्डितं जलं हरितं तरुमण्डलं शाद्वलञ्च निरन्तरं निभालयतोऽनुग्रह इति वाच्यम्, सर्वथा विषयकृतानुग्रहोपघातासम्भवस्यानुक्तत्वात् । किन्त्वेतावंदेव वदामो यदा विषयं विषयतया चक्षुरवलम्बते तदा तत्कृतावनुग्रहोपघातौ तस्य न भवत इत्यप्राप्यकारि तत्, शेषकालन्तु प्राप्तेनोपघातकेनानुग्राहकेण वोपघातोऽनुग्रहश्च भविष्यति, दिनकरस्य वंशवः प्रसरणशीला यदा तत्संमुखमवलोक्यते तदा ते चक्षुर्देशं प्राप्ताश्चक्षुरुपघ्नन्ति, स्वभावशीतलारशीतकररश्मयोऽपि सम्प्राप्ता एव चक्षुरनुगृह्णन्ति, तरङ्गमालासङ्कलजलावलोकने च जलबिन्दुसंपृक्तपवनसंस्पर्शनानुग्रहः, हरिततरुमण्डलशाद्वलविलोकने च तच्छायासम्पर्केण शीतलभूतवायुसंस्पर्शादेवानुग्रहः, अन्यदा तु जलाधवलोकनेऽनुग्रहाभिमान उपघाताभावाद्भवति, नान्यथा । प्राप्यकारित्वे तु समाने सम्पर्के यथा सूर्यमीक्षमाणस्य सूर्येणोपघातो भवति तथा वैश्वानरजलशूलाधवलोकने दाहक्लेदपाटनादयः कस्मान्न भवन्ति, किञ्च यदि १. विषयपरिच्छेदमात्रकालेऽनुग्रहोपघातशून्यता हेतुः, पश्चात्तु चिरमवलोकयतः प्रतिपत्तुः प्राप्तेन रविकिरणादिना चन्द्रमरीचिनीलादिना वा मूर्तिमता निसर्गत एव केनाप्युपघातकेनानुग्राहकेण वा विषयेणोपघातानुग्रही भवेतामिति भावः ॥ २. न च नायनरश्मयो नेत्रान्निर्गत्य विषयं प्राप्य सूर्यबिम्बरश्मय इव प्रकाशयन्ति, रविबिम्बरश्मय इव च सूक्ष्मत्वान्न वादिभिस्तेषां दाहादय इति वाच्यम्, नायनरश्मिग्राहकमानाभावात्, तथात्वेऽपि तेषामभ्युपगमेऽतिप्रसङ्गात्, न च वस्तुपरिच्छेदान्यथानुपपत्तिरेव तत्र लिङ्गमिति वाच्यम्, तानन्तरेणापि तत्परिच्छेदोपपत्तेः नहि मनसो रश्मयस्सन्ति, वस्तु च परिच्छिद्यते न च तदपि प्राप्यकार्येवेति वाच्यम्, अप्राप्यकारित्वस्य टीकाकद्धिर्वक्ष्यमाणत्वात । हेत्वन्तरेणापि तस्याप्राप्यकारित्वमाह यदि चक्षरिति ॥
SR No.022496
Book TitleTattvanyaya Vibhakar Part 02
Original Sutra AuthorN/A
AuthorLabdhisuri, Bhadrankarsuri, Vikramsenvijay
PublisherLabdhibhuvan Jain Sahitya Sadan
Publication Year2013
Total Pages776
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy