SearchBrowseAboutContactDonate
Page Preview
Page 663
Loading...
Download File
Download File
Page Text
________________ ६२६ तत्त्वन्यायविभाकरे शैस्संज्वलनाभिधैः कषायैः पूर्वोदितसप्तदशाशुभप्रकृतीनामेकस्थानिकरसबन्धः । शुभानान्तु वालुकाजलरेखासदृशैः कषायैश्चतुस्स्थानिकरसबन्धः, महीरेखासदृशैस्त्रिस्थानिको रसबन्धः, गिरिरेखासदृशैढिस्थानिको रसबन्धः, आसामेकस्थानिकरसबन्धो नास्त्येव । तत्रानुभागो रागद्वेषपरिणामवशेन जीवेन कर्मरूपतया परिणमितस्याऽऽत्मप्रदेशैस्संश्लेषमुपगतस्य पुनरप्यावेष्टनपरिवेष्टनरूपतयाऽतिगाढतरं बद्धस्याऽबाधाकालातिक्रमेणोत्तरकालवेदनयोग्यतया संचितस्योत्तरोत्तरस्थितिषु प्रदेशहान्या रसवृद्ध्याऽवस्थापितस्य समानजातीयप्रकृत्यन्तरदलिककर्मणोपचयं नीतस्येषत्पाकाभिमुखीभूतस्य विशिष्टापाकमुपागतस्यातएव फलं दातुमभिमुखीभूतस्य सामग्रीवशादुदयप्राप्तस्य बद्धन जीवेन निष्पादितस्याऽनाभोगिकवीर्येण बन्धसमय एव ज्ञानावरणीयादितया व्यवस्थापितस्य प्रदोषनिह्नवादिविशेषप्रत्ययैरुत्तरोत्तरं परिणामं प्रापितस्य परनिरपेक्षमुदयप्राप्तस्य परेण वोदयमुपनीतस्य स्वपररूपेण वोदयमुपनीयमानस्य कर्मणः काञ्चिद्गति स्थितिं भवं वा प्राप्य स्वयं, परं वा पुद्गलपरिणाम प्राप्य भवति, तत्र ज्ञानावरणीयस्य दर्शविधः, दर्शनावरणीयस्य नवविधः, वेदनीयस्याष्टविधः, मोहनीयस्य पञ्चविधः, आयुषश्चतुर्विधः शुभाशुभनामकर्मणश्चतुर्दशविधः, गोत्रस्याष्टविधः, अन्तरायस्य पञ्चविध इति । तदेवं कृतस्थितिकस्य स्वस्मिन् काले परिपाकमितस्य या शुभाशुभाकारेणानुभूयमानावस्था स रसबन्ध इति दिक् ॥ હવે રસરૂપ બંધને કહે છેભાવાર્થ - પરિપકવદશાને પામેલા વિશિષ્ટ કર્મસ્કંધોના શુભ-અશુભરૂપ વિપાકના અનુભવને યોગ્ય अवस्था, मे'२सध' . વિવેચન - રસબંધ, અનુભાવ અને અનુભાગબંધ, એવા ત્રણ પર્યાયવાચક શબ્દો છે. પરિપાકને પામેલા, ફળદાન માટે અભિમુખ થયેલ, વિશિષ્ટ કર્મસ્કંધોની-જ્ઞાન આવરણીયપણા આદિથી વ્યવસ્થાના વિષય કરેલ કર્મસ્કંધોની શુભ અશુભ વિપાકને અનુભવવાને યોગ્ય અવસ્થા, એ '२०५' छ. ५२५२, वि५।६३५ अनुमाव शुभ-अशुम३५ २ २नो छ. (१) शुम प्रकृतिमोनो शुभ १. श्रोत्रेन्द्रियविषयक्षयोपशमावरणश्रोत्रेन्द्रियोपयोगावरणचक्षुर्विषयक्षयोपशमावरणचक्षुरुपयोगावरणघ्राणविषयक्षयोपशमावरणध्राणोपयोगावरणरसनाविषयक्षयोपशमावरणरसनोपयोगावरणस्पर्शनविषयक्षयोपशमावरणस्पर्शनोपयोगावरणरूपेण दशविधः । निद्रा निद्रानिद्रा प्रचला प्रचलाप्रचलास्त्यानद्धिचक्षुर्दर्शनावरणाचक्षुर्दर्शनावरणावधिदर्शनावरणकेवलदर्शनावरणरूपेण नवविधः । मनोज्ञशब्दरूपगंधरसस्पर्शा मनोवचःकायसुखिता चेत्यष्टविधः । सम्यक्त्ववेदनीयमिथ्यात्ववेदनीयसम्यमिथ्यात्ववेदनीयकषायवेदनीयनोकषायवेदनीयभेदतः पञ्चविधः । २. प्रज्ञापनायास्त्रयोविंशतिपदमत्र द्रष्टव्यम् ।
SR No.022495
Book TitleTattvanyaya Vibhakar Part 01
Original Sutra AuthorN/A
AuthorLabdhisuri, Bhadrankarsuri, Vikramsenvijay
PublisherLabdhibhuvan Jain Sahitya Sadan
Publication Year2013
Total Pages814
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy