SearchBrowseAboutContactDonate
Page Preview
Page 610
Loading...
Download File
Download File
Page Text
________________ सूत्र - २६, अष्टमः किरणः ५७३ ज्ञानदर्शनेति । अनाशातनाभक्तिबहुमानकीर्तिप्रकाशनात्मको विनयः कर्मरजोहारकत्वात् स च ज्ञानाद्यात्मकविषयभेदाच्चतुविधः तथा च ज्ञानदर्शनचारित्रोपचारान्यतमविषयकानाशातनादिमत्त्वं विनयस्य लक्षणम् । ज्ञानलाभायाऽऽचारविशुद्धये सम्यगाराधनाय च विनयो भवति । ज्ञानविनयमाह-तत्रेति, अनलसेन शुद्धमनसा देशकालादिविशुद्धिविधानविचक्षणेन सबहुमानं यथाशक्ति सेव्यमाना ये मत्यादयस्तेषु योऽभ्यासः ग्रहणधारणस्मरणादिर्ज्ञानविनय इति भावः । दर्शनविनयमाह-जिनेन्द्रोक्तेति, भगवद्भिरुपदिष्टाः पदार्थाः यथालक्षणा एव वर्त्तन्ते नान्यथावादिनो जिना इति निःसंशयता, तथाऽर्हत्प्रणीतस्य धर्मस्याचार्योपाध्यायस्थविरकुलगणसंघसाधुसमनोज्ञानां चानाशातना प्रशमसंवेगनिर्वेदानुकम्पाऽऽस्तिक्यानि च दर्शनविनय इति भावः । चारित्रविनयमाह-श्रद्धयेति । सामायिकादिपञ्चविधचारित्रेषु श्रद्धा तत्पूर्वकमनुष्ठानं यथावत्तत्प्ररूपणञ्च चारित्रविनय इत्यर्थः । उपचारविनयमाह-गुणाधिकेष्विति। उपचरणमुपचारः श्रद्धासहितो व्यवहारो नैकविधस्सः, प्रत्यक्षेष्वाचार्यादिषु अभ्युत्थानाभिगमनाञ्जलिकरणवन्दनानुगमनादिरात्मानुरूपः परोक्षेष्वपि कायवाङ्मनोभिरञ्जलिक्रियागुणसंकीर्तनानुस्मरणादिरूप उपचारविनयः । गुणैः सम्यग्ज्ञानदर्शनैर्दशविधसामाचारीसम्पद्भिश्चाधिका ये तेष्वित्यर्थः । शिष्टजनाचरिता विशिष्टक्रिया सामाचारी स्वाथिकष्यजन्तेन सामाचार्यशब्देन स्त्रीत्वविवक्षायां निष्पन्नोऽयं शब्दः । सा च प्रतिलेखनाप्रमार्जनभिक्षेर्याऽऽलोचनभोजनपात्रकधावनविचारस्थंडिलावश्यकभेदतः प्रतिदिनप्रभवा दशविधा भवतीति दिक् ॥ વિનયનું નિરૂપણ. ભાવાર્થ - જ્ઞાનવિનય-દર્શનવિનય-ચારિત્રવિનય કે ઉપચારવિનય, એમ ચાર પ્રકારનો વિનય છે. ત્યાં નમ્રતાપૂર્વક જ્ઞાનનો અભ્યાસ કરવો, એ “જ્ઞાનવિનય છે.” શ્રદ્ધા વડે અને અનુષ્ઠાન વડે ચારિત્રની પ્રરૂપણા કરવી, એ “ચારિત્રવિનય' છે. ગુણોની અપેક્ષાએ અધિકો-અધિક ગુણવંતો પ્રત્યે અભ્યસ્થાન આદિ अनुठान, ये ७५याविनय' छे. - વિવેચન - અનાશાતના-તીર્થકઆદિની સર્વથા હેલનાનો અભાવ, ભક્તિ=તે તીર્થકર આદિમાં જ ઉચિત સેવા, બહુમાન તે તીર્થંકર આદિમાં જ અંતરના ભાવની પ્રતિબંધ, કીર્તિપ્રકાશન=તે તીર્થકર ३. अनाशातना तीर्थकरादीनां सर्वथाऽहेलना, तेष्वेवोचितोपचाररूपा भक्तिः तेष्वेवान्तरभावप्रतिबन्धो बहुमानः, तेषामेव सद्भूतगुणोत्कीर्तना कीर्तिप्रकाशनम् । तीर्थकरसिद्धकुलगणसंघक्रियाधर्मध्यानज्ञानज्ञान्याचार्यस्थविरोपाध्यायगणिनां सम्बन्धीनीति विनयपदानि त्रयोदश तेषां अनाशातनाद्युपाधिभेदेन चतुर्भिर्गुणनात् द्विपञ्चाशद्भेदा भवन्तीति ।
SR No.022495
Book TitleTattvanyaya Vibhakar Part 01
Original Sutra AuthorN/A
AuthorLabdhisuri, Bhadrankarsuri, Vikramsenvijay
PublisherLabdhibhuvan Jain Sahitya Sadan
Publication Year2013
Total Pages814
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy