SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ ३४६ तत्त्वन्यायविभाकरे ભાવાર્થ - શ્રેણિથી મિથ્યાત્વમોહનીય, અનંતાનુબંધી ચાર કષાય આદિના ઉપશમથી શ્રેણિજન્ય ઉપશમ સમ્યકત્વ થાય છે. વિવેચન - જો ચોથા, પાંચમા, છઠ્ઠા કે સાતમા અર્થાત્ આ ચારમાંથી કોઈ એક ગુણસ્થાનમાં અનંત અનુબંધી અને દર્શનમોહનીયની સર્વ ઉપશમના હોય છે, તે ઉપશમ સમ્યત્વયુક્ત ઉપશમશ્રેણિને જીવ પામે છે. તેનું જે ઔપથમિક સમ્યકત્વ, તે ઉપશમશ્રેણિજન્ય ઉપશમ સમ્યત્વ કહેવાય છે, એમ ભાવ જાણવો. શંકા - આ બે પ્રકારના ઉપશમ સમ્યકત્વને પામનારા બધાય શું આરોહકો જ હોય કે કાંઈ વિશેષ છે? આવી શંકામાં કહે છે કે - ननु द्विविधमुपशमसम्यक्त्वं लभमानाः सर्वे किमारोहका एव स्युरुतास्ति कश्चिद्विशेष इत्याशङ्कायामाह उभयविधसम्यक्त्वात्पततः सास्वादनगुणस्थानं भवति । १४ । उभयविधेति । अस्ति विशेषः, कोऽसौ विशेष इत्याह पतत इति । न सर्वे आरोहका एव, किन्तु पतन्तीति भावः । ननु तर्हि किं तेषां गुणस्थानं भवतीत्यत्राह-सास्वादनेति । सास्वादनमपीति भावः, अत्र तु सास्वादनमुभयविधसम्यक्त्वात्पतत एव भवति नान्येषामिति सूचयितुं तथोक्तिरिति भाव्यम् । उपशमश्रेणितः प्रतिपतन् कश्चिदनन्तानुबन्ध्युदये सास्वादनगुणस्थानं लभते । गुणस्थानमिदं प्रतिपतत एव भवति न त्वारोहतः, मिथ्यात्वगुणस्थानन्तु प्रतिपततोऽपि, मिश्रादीनि च प्रतिपतत आरोहतश्च । एकादशं दशमादारोहत एव, ततोऽग्रे आरोहणाभावात् ततोऽधःपातनियमात् द्वादशादीनि सर्वाणि आरोहत एव, तेभ्यः प्रतिपाताभावात् । प्रथमादन्यानि गुणस्थानानि भव्यस्यैव । ननु सास्वादनादितरेषां गुणस्थानानामूर्ध्वमूर्ध्वमारोहरूपतया गुणस्थानत्वं युक्तं, मिथ्यात्वस्याप्यव्यक्तमिथ्यात्वतो व्यक्तमिथ्यात्वप्राप्त्याऽऽरोहणस्वरूपत्वेन तथात्वं सास्वादनस्य सम्यक्त्वात्प्रपातरूपस्य कथं गुणस्थानत्वमिति चेन्न मिथ्यात्वगुणस्थानापेक्षयाऽस्याऽऽरोहणरूपत्वात् अपार्धपुद्गलपरावर्तावशेषसंसाराणां भव्यानामेवैतद्गुणस्थानेऽधिकारात् । अत्रस्थो जीव एकोत्तरशतबन्धकः, मिर्ध्यात्वनरकत्रिकै केन्द्रियादिजातिचतुष्कस्थावरचतुष्काऽऽतपहुण्डसेवार्त्तनपुंसकवेदरूपषोडशप्रकृतिव्यवच्छेदात् । १. आन्तमौहूर्तिक्यामुपशमाद्धायां जघन्यतस्समयशेषायामुत्कृष्टतः षडावलिकाशेषायां सत्यां कस्यचिन्महाबिभीषिकोत्थानकल्पोऽनन्तानुबन्थ्युदयो भवति, तदुदये चासौ सास्वादनसम्यग्दृष्टिगुणस्थाने वर्त्तते । मिथ्यात्वस्याद्याप्यप्राप्तत्वादव्यक्तमुपशमगुणस्य वेदनादस्य गुणस्थानस्य गुणस्थानत्वमिति भावः ॥ २. एतासां मिथ्यात्वप्रत्ययत्वान्नाग्रिमेषु बन्धः, यत एताः प्रायो नारकैकेन्द्रियविकलेन्द्रिययोग्यत्वादत्यन्ताशुभत्वाच्च मिथ्यादृष्टिरेव बध्नातीति ॥
SR No.022495
Book TitleTattvanyaya Vibhakar Part 01
Original Sutra AuthorN/A
AuthorLabdhisuri, Bhadrankarsuri, Vikramsenvijay
PublisherLabdhibhuvan Jain Sahitya Sadan
Publication Year2013
Total Pages814
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy