SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ २६७ सूत्र - ४१-४२, पञ्चमः किरणे संज्वलनक्रोधादीन्निवक्तुमादौ संज्वलनस्वरूपमाचष्टे ईषत्संज्वलनकारिणः पक्षावधयो देवगतिप्रदायिनो यथाख्यातचारित्रघातिनस्संज्वलनाः । ईदृशाश्च क्रोधादय एव संज्वलनक्रोधादयः । ४२ । ईषत्संज्वलनकारिण इति । परीषहोपसर्गादिसंपाते सति चारित्रीणमपि संईषद्ज्वलयन्तीति संज्वलनाः, एषामुदये हि यथाख्यातचारित्रलाभो न भवति, अकषायचारित्रलाभो न भवतीति भावः । एषामप्यवधिमाह पक्षावधय इति । उत्कर्षेणेदम् पाक्षिक प्रतिक्रमणकाले प्रकर्षतो विध्यापनात्, जघन्येन तु पश्चात्तापोत्पत्यनन्तरमेव व्यपगच्छन्तीति भावः । ईदृशं क्रोधादिकमनुमृतानां का गतिरित्यत्राह देवगतिप्रदायिन इति । तेषां कार्यमाह यथाख्यातेति । उपशान्तक्षीणकषायस्य यथाख्यातचारित्रावाप्तेरिति भावः । संक्षेपतस्संज्वलनक्रोधादिस्वरूपमुपदर्शयति ईदृशाश्चेति । संज्वलनात्मकाश्चेत्यर्थः । चशब्दः प्रकारभेदसमाप्तिद्योतकः । क्रोधादय एवेति लक्षणं पूर्ववत् । उत्कृष्टा स्थितिः प्राग्वत्, जघन्या तु संज्वलनक्रोधस्य मासद्वयं संज्वलनमानस्य मासः, संज्वलनमायाया अर्धमासः, संज्वलनलोभस्यान्तमुहूर्त्तम्, सर्वेषामबाधाकालोऽन्तर्मुहूर्त्तम् । क्रमेणोदकराजितृणस्तम्भनिर्लेखनहरिद्रारागसदृशा एते ॥ સંજવલન ક્રોધ વગેરે કહેવા માટે આરંભમાં સંજવલન સ્વરૂપનું વર્ણન ભાવાર્થ-થોડા સંજવલન કરનારા, પક્ષની અવધિવાળા અને દેવગતિને આપનારા યથાખ્યાતચારિત્રના ઘાતીઓ “સંજવલનો અને આવા ક્રોધ વગેરે જ સંજ્વલન ક્રોધ આદિ છે. વિવેચન-પરીષણો અને ઉપસર્ગોની ઝડી વરસાવાથી ચારિત્રવંતને પણ જરા જલાવે છે, તે સંજવલનો. આ પ્રમાણે સંજવલનનો વ્યુત્પત્તિ અર્થ છે. ખરેખર, આ કષાયોના ઉદયમાં યથાખ્યાતચારિત્રનો લાભ થતો नथी.. (સંજવલન કષાયો ફક્ત યથાખ્યાતના ઉપઘાતી નથી, પરંતુ શેષ ચારિત્રોના પણ દેશઘાતીઓ થાય છે, કે જેથી તેઓના ઉદયમાં શેષ ચારિત્ર પણ અતિચારવાળું થાય છે.) અર્થાત્ કષાય વગરના ચારિત્રનો લાભ थतो नथी. -- . १. संज्वलना न केवलं यथाख्यातोपघातिनः किन्तु शेषचारित्राणामपि देशोपधातिनो भवन्ति, यतस्तेषामुदये शेषचारित्रमपि सातिचारं भवतीति भावः ॥ २. व्यवहारनयापेक्षयाऽयं कालनियमः, बाहुबलिप्रभृतीनामन्येषांसंयतादीनाञ्च संज्वलनस्य पक्षात्परतोऽपि मासवर्षादिकाले प्रत्याख्यानावरणानामप्रत्याख्यानावरणानामनन्तानुबन्धिनाञ्चान्तर्मुहूर्तादिकालं स्थितिश्रवणात् ॥
SR No.022495
Book TitleTattvanyaya Vibhakar Part 01
Original Sutra AuthorN/A
AuthorLabdhisuri, Bhadrankarsuri, Vikramsenvijay
PublisherLabdhibhuvan Jain Sahitya Sadan
Publication Year2013
Total Pages814
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy