SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ १५१ सूत्र - २०, तृतीय किरणे છે. પ્રતિકૂળ વાયુથી વહન કરાતો શબ્દ પ્રતિહત થાય છે માટે સંભળાતો નથી, જયારે અનુકૂળ વાયુથી વહન કરાતો શબ્દ ગંધની માફક ઉપલબ્ધ થાય છે. વાયુથી શબ્દ વહન કરાય છે એમાં સંશય ન કરો ! अथ पुद्गलानां न केवलं स्पर्शादय एव धर्मा अपि तु शब्दादयोऽपीत्याह शब्दान्धकारोद्योतप्रभाच्छायाऽऽतपादिपरिणामवान् । २० । शब्देति । प्रत्यर्थनियतसङ्गतवर्णादिविभागवान् ध्वनिः शब्दः, अनादिवृद्धपरम्परासंकेतप्रसिद्धिवशात् प्रत्यर्थनियतत्वं, परस्परापेक्षातः स्वाभिधेयैकार्थकारितया शिबिकोद्वाहकवत् सङ्गतत्वं वर्णपदवाक्यानि, अव्यक्तशब्दश्च विभागस्तद्वान् ध्वनिरेव शब्दस्स च पुद्गलपरिणामत्वात्प्रतिविशिष्टपरिणामानुगृहीतः पुद्गलद्रव्यरूप एव, अत एव मूर्तत्वंद्रव्यान्तरविक्रियापादनसामर्थ्याच्च । न च शब्दो न पुद्गलपरिणामो निश्छिद्रभवनाभ्यन्तरतो निर्गमनात्, तत्र बाह्यतः प्रवेशात्, व्यवधायकाभेदनादेश्च दर्शनात्, यस्तु पुद्गलस्वभावो न तस्यैवंदर्शनं, यथा लोष्ठादेः, तथादर्शनं च शब्दस्य, ततो न पुद्गलस्वभावत्वमिति वाच्यम्, पुद्गलस्वभावत्वेऽपि तदविरोधात्, सूक्ष्मस्वभावत्वाद्धि तस्य निश्छिद्रनिर्गमनादयो न विरुद्धयेरन् स्नेहादिस्पर्शादिवत्, कथमन्यथा पिहितकलशाभ्यन्तरतस्तैलजलादेर्बहिनिर्गमनं स्निग्धतादिविशेषदर्शनादनुमीयेत । कथं वा पिहितनिश्छिद्रमृद्धटादेर्जलाभ्यन्तरनिहितस्यान्तरशीतस्पर्शोपलम्भात्सलिलप्रवेशोऽनुमीयेत, तदभेदनादिकं वा तस्य निश्छिद्रतया प्रेक्षणात्कथमुत्प्रेक्षेत, तस्मात्स्नेहादिस्पर्शादिभिर्व्यभिचारी हेतुः । न च शब्दो न पुद्गलस्वभावः, अस्पर्शत्वात् सुखादिवदिति बाधकसद्भावान्न पुद्गलस्वभावत्वं शब्दस्येति वाच्यम्, हेतोरसिद्धत्वात्, यतः कर्णशष्कुल्यां कटकटायमानस्य प्रायशः प्रतिघातहेतोः श्रवणाधुपघातिनः शब्दस्य प्रसिद्धिरस्पर्शत्वकल्पनामस्तङ्गमयति । न च शब्दस्य पुद्गलपर्यायत्वे चाक्षुषत्वप्रसङ्ग इति वाच्यम्, गन्धपरमाणुवददृश्यत्वात्, एतेन शब्दस्याकाशगुणत्वं निरस्तं मूर्त्तत्वात्, नहि रूपादयो व्योमगुणा इति व्यवहारः शोभते तस्मात् पुद्गलानामेव तथाविधः परिणामः शब्दव्यपदेशमश्नुते, तथा च परिणामपरिणामिनोरभेदेन स्याद्रव्यं स्याद्गुण इति विज्ञेयम् । अन्धकारस्तावत्पुद्गलपरिणाम एव भित्त्यादिवद् दृष्टिप्रतिरोधकारित्वात्, पटादिवदावारक त्वात्, न तु तेजोऽभावरूपः, व्यवधानक्रियासामर्थ्यात् भित्त्यादिवत्, अभावरूपत्वे हि निष्क्रियत्वेन १. स्वयं विशेषणानामर्थमाहानादीति । २. शब्दस्य मूर्तपुद्गलपरिणामत्वादेवेत्यर्थः । शब्दस्य मूर्त्तत्वे हेत्वन्तरमाह द्रव्यान्तरेति, चशब्दो हेत्वन्तरसमुच्चायकः, तेन प्रतीपयायित्वाद्वारानुविधायित्वादित्यादयो हेतवो ग्राह्याः ॥३. दृष्टळवधानकरणे सामर्थ्यादित्यर्थः ।
SR No.022495
Book TitleTattvanyaya Vibhakar Part 01
Original Sutra AuthorN/A
AuthorLabdhisuri, Bhadrankarsuri, Vikramsenvijay
PublisherLabdhibhuvan Jain Sahitya Sadan
Publication Year2013
Total Pages814
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy