SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ सूत्र - ७, तृतीय किरणे ११७ किमपि भवतीत्याकाशसिद्धिः । न चावरणाभाव एव तादृशोऽस्त्विति वाच्यम्, सर्वथाऽधिकरणानात्मकस्याभावस्यापसिद्धान्तत्वेन तदधिकरणात्मकस्यैवाकाशत्वात् । न चाकाशस्यापि धर्मादीनामिवावगाहदायि द्रव्यान्तरं स्यादिति वाच्यम् ततोऽधिकव्यापिद्रव्यान्तराभावात् । धर्मिग्राहकप्रमाणेन तस्यावगाह्यत्वेनैव सिद्धेश्च । एवमेव यद्यद्रव्यं तत्तत्साधारणमिति व्याप्त्याऽस्ति गगनं द्रव्याणां साधारणत्वान्यथानुपपत्तेरित्यनुमानादपि सर्वाधारत्वेनाकाशसिद्धिः । न च तस्यापि द्रव्यत्वेन साधारणत्वं स्यात्तथा चानवस्थेति वाच्यम्, धर्मिग्राहकमानेनाधारमात्रस्वरूपतयैव सिद्धेः । न चाकाशे द्रव्यत्वसत्त्वेऽपि साधारणत्वाभावेन व्यभिचार इति वाच्यम्, धर्मिसिद्धेः पूर्वं व्यभिचारास्फुरणात्, तदुत्तरं तत्स्फूर्तेरकिञ्चित्करत्वादिति ॥ धमिग्राहक मानेनाकाशस्यैकत्वे सिद्धे तस्योपाधिनिमित्तं भेदमाह-लोकालोकेति, लोकाकाशोऽलोकाकाशश्चेति द्विविधमित्यर्थः, धर्माद्यवच्छिन्नं नभो लोकाकाशस्तद्विपरीतोऽलोकाकाश इति भावः । ननु लोकाकाश एव भवतु किमलोकाकाशेनेति चेन्न लोको विद्यमानविपक्षः, व्युत्पत्तिमच्छुद्धपदाभिधेयत्वादघटविपक्षकघटवदित्यनुमानेन तत्सिद्धेः, न च घटादिरेवालोक इति वाच्यम्, नत्रा निषेध्यसदृशस्यैव बोधनात्, तस्माद्धर्माद्याधारात्मकलोकाकाशस्य विपक्षोऽलोकाकाशमेव भवितुमर्हतीति बोध्यम् ॥ હવે આકાશદ્રવ્યની સિદ્ધિમાં અનુમાનપ્રમાણ દર્શાવે છે કેભાવાર્થ- અવગાહ કરતા દ્રવ્યોનો યુગપત્ (એકીવખતે) અવગાહ, અસાધારણ અને બાહ્ય નિમિત્તની અપેક્ષાવાળો છે, કેમ કે- યુગપતું અવગાહ છે. જેમ કે- એક જ સરોવરમાં રહેનારા મત્સ્ય આદિનો અવાગાહ. આ પ્રમાણેનું અનુમાન છે. તે આકાશ, લોક અને અલોકના ભેદથી બે પ્રકારનું છે. વિવેચન- અહીં વર્તમાનકાળમાં અવગાહના કરનારા એવા જીવ આદિ અનેક દ્રવ્યોનો એકીવખતે જે અવગાહ છે, તેનું પક્ષપણું (ધર્મીપણું) સૂચવવા માટે યુગપત્ અવગાહ’ એમ કહેલ છે. જો અવગાહક દ્રવ્યોનો “યુગપત્ અવગાહ’ એમ પક્ષ તરીકે ન માનવામાં આવે, તો સ્થૂલ દ્રવ્યોમાં પ્રતિઘાત (અટકાવવું) હોવાથી સૂક્ષ્મ દ્રવ્યો પરસ્પર અવગાહદાયક હોઈ, તથાવિધ અવગાહમાં અસાધારણબાહ્ય બીજા પરમાણુઓના અપેક્ષા કારણથી જન્યપણું સિદ્ધ હોઈ સિદ્ધસાધનપણાની આપત્તિ છે. १. न च धर्माधर्मावेवाधारौ भविष्यतः किमतिरिक्तेनाकाशेनेपि वाच्यम् । तयोर्गतिस्थितिसाधकत्वात्, न ह्यन्यसाध्यं कार्यमन्यः प्रसाधयति, अतिप्रसङ्गात् । न च युतसिद्धानामेव कुण्डबदरादीनामाधारधेयभावदर्शनादयुतसिद्धानां न -धर्माधर्माद्याकाशानामाधाराधेयभाव इति वाच्यम्, युतसिद्धयभावेऽपि पाणौ रेखेत्यादौ तदर्शनात् । न चाकाशस्यावकाशदातृत्वे भित्यादिना गवादीनां प्रतिघातो न स्यादिति वाच्यम्, मूर्त्तानां स्थूलानामन्योऽन्यप्रतिघातात् सूक्ष्माणामन्योन्यप्रवेशशक्तियोगात्, अन्योन्यप्रवेशयोग्यानामकाशदातृत्वादाकाशस्य तावता सामर्थ्यहानाभावादिति ॥
SR No.022495
Book TitleTattvanyaya Vibhakar Part 01
Original Sutra AuthorN/A
AuthorLabdhisuri, Bhadrankarsuri, Vikramsenvijay
PublisherLabdhibhuvan Jain Sahitya Sadan
Publication Year2013
Total Pages814
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy