SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ ૨૦૪ શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૯ સૂત્ર-૨૪ सङ्ग्रहः अन्नपानभेषजप्रदानादुपग्रहः सूत्रप्रदानादनुग्रहः एतदर्थं चोपधीयते सेव्यत इत्युपाध्यायः, पृषोदरादित्वात् । 'सङ्ग्रहादीन् वाऽस्योपाध्येति' इति, सङ्ग्रहोपग्रहानुग्रहान्वाऽस्य सम्बन्धिनः, तत्समीपभवांस्तत्कृतानुपाध्येति स्मरतीत्युपाध्यायः । द्विसङ्ग्रहो निर्ग्रन्थ इति सगृह्यतेऽनेनेति सङ्ग्रहः द्वाभ्यां सगृह्यते-बद्ध्यते, द्वाभ्यां सगृहीत इत्यर्थः, एतदेव विवृणोति-आचार्योपाध्यायसङ्ग्रह इति, त्रिसङ्ग्रहा निर्ग्रन्थी आचार्यादित्रयसगृहीतेत्यर्थः, का पुनरिदं प्रवर्तिनी ?, प्रवर्तिनी दिगाचार्येण व्याख्याता तत्सदृशी द्रष्टव्या, श्रुतसकलनिशीथाध्ययना समुचितकल्पव्यवहारसूत्रग्राहिणी संविग्ना प्राप्तदिगनुज्ञा, सा चात्महिताय प्रवर्त्तते निःश्रेयसायैव घटते, अन्याश्च प्रवर्त्तयति, साध्वीः स्मारणधारणवारणादिप्रयोगेन प्रवर्त्तयतीति प्रवर्तिनी, विकृष्टं दशमादि किञ्चिन्न्यूनषण्मासान्तमुग्रं भावविशुद्धमनिश्रितमल्पसत्त्वस्य वा भयानकमुग्रं तपस्तद्युक्तस्तपस्वीति । अचिरप्रव्रजित इत्यादि, आद्यपश्चिमतीर्थयोर्मध्यमतीर्थेषु च कतिचिदहानि प्रतिपन्नस्य सामायिकस्य गतानि यस्य सोऽचिरप्रव्रजितः, ग्रहणासेवनशिक्षामुभयी शिक्षयितव्यः शैक्षः, शिक्षामर्हति वा शैक्षकः, शिक्षाशीलो वा शैक्षः, छत्रादित्वाण्णप्रत्ययः, ग्लानो मन्दोऽपटुाध्यभिभूतः प्रतीतः, सुज्ञान एवेत्यर्थः, कुलानि स्थानीयादीनि कुलसमुदायो गणः स्थविरसन्ततिसंस्थितिः स्थविरग्रहणेन श्रुतस्थविरपरिग्रहः, न वयसा पर्यायेण वा, तेषां सन्ततिः-परम्परा तस्याः संस्थानं-वर्तनं अद्यापि भवनं संस्थितिः कुलमाचार्यसन्ततिसंस्थितिः, एकाचार्यप्रणेयः साधुसमूहो गच्छ:, बहूनां गच्छानामेकजातीयानां समूहं कुलं, तत्र ये आचार्यगुणोपेतास्तत्सन्ततिसंस्थितिः कुलं, तेषां प्राधान्यात्, सङ्घश्चतुर्विधः साधुसाध्वीश्रावकश्राविकाः, तत्र येषु व्यवस्थिता ज्ञानदर्शनचरणगुणास्ते परमार्थतः संघः श्रमणादिरिति, पुरुषोत्तरधर्म इति ज्ञापनार्थमुक्तं साधवः संयता इति, ज्ञानादिलक्षणाभिः पौरुषेयीभिः शक्तिभिः मोक्षं
SR No.022493
Book TitleTattvarthadhigam Sutram Part 09
Original Sutra AuthorN/A
AuthorRajshekharsuri, Dharmshekharvijay, Divyashekharvijay
PublisherArihant Aradhak Trust
Publication Year2014
Total Pages330
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy