________________
સૂત્ર-૨૪
શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૯
२०३
જે શિક્ષાને યોગ્ય છે તે શૈક્ષ. ગ્લાન પ્રસિદ્ધ છે. ગણ એટલે સ્થવિરોની સંતતિની સંસ્થિતિ. કુલ એટલે એકાચાર્યની સંતતિની સંસ્થિતિ. શ્રમણાદિ ચાર પ્રકારનો સંઘ છે. સાધુઓ એટલે સંયતો. સંભોગથી યુક્ત હોય તે સમનોજ્ઞ.
खेमने अन्न-पान-वस्त्र- पात्र - उपाश्रय-पीठ-पाटियुं संथारो वगेरे ધર્મસાધનોથી ઉપગ્રહ, શુશ્રુષા અને ભેષજક્રિયા તથા કાંતાર-વિષમદુર્ગ-ઉપસર્ગોમાં અલ્યુપપત્તિ વગેરે વૈયાવૃત્ત્વ છે. (૯-૨૪)
टीका- आचार्यादीनां समनोज्ञान्तानां कृतद्वन्द्वानां षष्ठीबहुवचनेन निर्देश:, वैयावृत्त्यं दशविधमित्यादि, आचार्यादिभेदाद्दशधा, तान् प्रकारान् नामग्राहमाख्याति - आचार्यवैयावृत्त्यमित्यादिना, वैयावृत्त्यशब्दव्युत्पादनायाह-व्यावृत्तभावो वैयावृत्त्यं व्यावृत्तकर्म्म चेति, व्यावृत्तोव्यापारप्रवृत्तः प्रवचनचोदितक्रियाविशेषानुष्ठानपरः तस्य यो भावः तथाभवनं तथापरिणामस्तद् वैयावृत्त्यं व्यावृत्तकर्म्म चेति तत्तथाभूतस्य यत् कर्म - क्रिया तद्वैयावृत्त्यं, पूर्वत्र क्रियाक्रियावतोः प्राधान्यमुत्तरत्र क्रियाया इति । तच्च वैयावृत्त्यं यथासम्भवं क्षेत्रवसतिप्रत्यवेक्षणभक्तपानवस्त्रपात्रभेषजशरीरशूश्रूषणतदागमनविद्यामन्त्रप्रयोगसाध्यादिः, आचार्याद्युद्देशेनाचार्यादीनां यत् कर्त्तव्यं तत्र व्यग्रता व्यावृत्तता, आचार्यः पूर्वोक्तः पञ्चविध इत्यादि, आचरति आचारयति चेत्याचार्यः'कृल्ल्युटो बहुल' मिति वचनात्, सूत्रे पूर्वोक्तः क्षमामार्दवार्जवादिसूत्रं,
पञ्चप्रकार:
-
'प्रव्राजको दिगाचार्य:, श्रुतोद्देशी तथैव च ।
समुद्देष्टा श्रुतस्यान्यस्तथाऽऽम्नायस्य वाचकः ॥ १॥ इति, आचारो ज्ञानादिभेदः पञ्चधा तस्य गोचरो - विषयो यथास्वं तद्विषयो विनयस्तमाचारगोचरविनयं स्वाध्यायं च पञ्चप्रकारं वक्ष्यमाणं आचार्याल्लब्धानुज्ञाः साधवोऽनु-पश्चात्तस्मादुपाधीयत इत्युपाध्यायः, अपादानसाधनो घञ्, सङ्ग्रहोपग्रहानुग्रहार्थं चेति वस्त्रपात्रप्रदानात्